पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१८३
तदानीं त्वामवस्थाप्य राजञ्जिष्णोर्निदेशतः ।
पुनस्त्वरितमेतस्याः पादान्तिकमुपागमम् ॥ ३१३ ॥
विमानरत्नमारूढो मनसोऽप्यधिकत्वरम् ।
किरीटी हेमकूटाख्यं क्षणादद्रीन्द्रमासदत् ॥ ३१४ ॥
तत्रैकच्छत्रसाम्राज्यसगर्वतिमिरे क्वचित् ।
वृक्षलक्षपरिक्षिप्ते प्रभुर्नः कन्दरेऽविशत् ॥ ३१५ ॥
मर्त्यकीटे न ते देवि कृतसर्वाङ्गसङ्गतेः ।
मां विधाय धवं धातुरद्य पाप्मा विलुप्यताम् ॥ ३१६ ॥
देवि विद्याधरैः पाणिपल्लवोद्भूतचामरम् ।
वैडूर्यपुरसाम्राज्यमुपभोक्तु प्रसीद मे ॥ ३१७ ।।
सद्यः कन्दलिते विद्यावैभवेन नवे नवे ।
प्रासादपर्वतोद्याने देवि क्रीड मया सह ॥ ३१८ ॥
देवि हित्वा प्रतीपत्वं द्वीपशैलाननेकशः।
व्योमयानेन वीक्षस्व मदुत्सङ्गैकसङ्गिनी ।। ३१९ ॥
इति प्रभावतीं तत्र मेघनादः प्रसादयन् ।
ददृशे खेचरो वैरिकेतुना कपिकेतुना ॥ ३२० ॥
(पञ्चभिः कुलकम् )
आः पाप चापलं पूर्वजीवितं विजहासि किम् ।
मम पत्युः पुरो हन्त पुरुहूतोऽपि कातरः ॥ ३२१ ।।
मत्कान्तराज्ये स्वाराज्यगर्वसर्वकषे सति ।
स्तुतेर्विद्याधरादीनां न पदं राज्यसंपदः ॥ ३२२ ।।
नानाश्चर्यमयद्वीपशैलालोकनकौतुकम् ।
चिरायुर्मणिचूडो मे सोदरः पूरयिष्यति ॥ ३२३ ॥
निद्राणे मत्प्रिये चौर मामहार्षीस्त्वमक्षतः।
मृगारौ जागरूके हि का मृगस्य प्रभूष्णुता ॥ ३२४ ॥
पारदारिक चेत्पाणिं मदङ्गे लगयिष्यसि ।
तेनैव पाप्मना मङ्क्षु भस्मसात्त्वं भविष्यसि ॥ ३२५ ॥