पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।
विपत्तिर्दर्शितानेन भगिन्या भगिनीपतेः।
तज्जीवितेन किं नाम फाल्गुनोऽपि करिष्यति ॥ ३० ॥
एवमालोचयन्नुच्चरैन्तः श्वेतहयो ययौ ।
तत्कालज्वलितोदर्चिर्महीपतिचितान्तिकम् ॥ ३०१॥
मन्त्रपूतैः प्रभावत्या पाणिसंस्पर्शपावितैः ।
भूमिभर्तुश्चिताम्भांसि सिषेवे सव्यसाचिना ॥ ३०२ ॥
राजलोकस्य सर्वस्व तत्क्षणोत्थितहेतयः ।
तेन व्योमचरैरन्या सेचयांचक्रिरे चिताः ॥ ३०३ ॥
प्रभावत्याश्च जिष्णोश्च साकं शोकहविर्भुजा।
ततः प्रशान्तिं तत्कालमाललम्बे हुताशनः ॥ ३०४ ॥
विमुक्तस्फारफेत्कारा तदोत्सङ्गान्महीपतेः।
पलायामास वेगेन सा प्रपञ्चप्रभावती ॥ ३०५ ॥
ततो विश्वंभराभर्ता विस्मयस्मेरलोचनः ।
निर्जगाम चितामध्यात्प्रेयसीविरहादिव ॥३०६ ॥
वियोगार्तिमनुप्राप्तः शोक एव परासुताम् ।
ननु प्रभावती देवी न चान्यः कोऽपि तामनु ॥ ३०७ ॥
प्रमोदाविष्टया दृष्टया भूयः संभाव्य वल्लभाम् ।
पीयूषहूदनिर्मग्नमिवात्मानममन्यत ॥ ३०८ ॥
केसरश्च पुरोभूय भूमिवल्लभमभ्यधात् ।
अर्जुनः पाण्डुपुत्रोऽयमानिनाय तव प्रियाम् ॥ ३०९ ॥
ततः स सहसाभ्येत्य बीभत्सुमभिषस्वजे ।
तदीयाङ्गपरिष्वङ्गैः स्वमङ्गं पावयन्निव ॥ ३१० ।।
वृत्तान्तेन ततस्तेन प्रेङ्खोलितमनास्तदा ।
किमेतदिति वीभत्सुमन्वयुङ्क्त महीपतिः ॥ ३११ ॥
अथास्मै कथयामास पार्थादेशेन केसरः ।
वदेयुरवदानं हि सन्तो नात्मीयमात्मना ॥ ३१२ ॥