पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१८१
देवि तीर्णासि चेत्कृच्छ्रादपहारमहोदधिम् ।
किमिदानी दशेयं ते विधेरहह वामता ॥ २८७ ।।
स्वर्लोकपथिकीं देवि राजापि त्वामनुव्रजन् ।
आनृण्यमिच्छति प्रीतेः का कथा मादृशां पुनः ॥ २८८ ॥
देवि त्वद्विरहे प्राणाः क्षणं न स्थातुमीशते ।
ततस्तवैव सार्थेन प्रार्थयन्ति त्रिविष्टपम् ॥ २८९ ॥
एतावतो जनस्यास्य प्राणान्हर्तुमनाः समम् ।
कोऽप्यहिच्छद्मना मन्ये देवो दैत्योऽथवागतः ॥ २९० ॥
निशम्येति परीवारपरिदेवितभारतीम् ।
कौन्तेयस्याभवत्कामं द्वेधेव हृदयं तदा ॥ २९१ ॥
तदुद्वीक्ष्य क्षणान्मर्मच्छेदमूर्छालमानसा ।
इत्यचिन्तयदुद्भूतदुःखभारा प्रभावती ॥ २९२ ॥
हा विधे विदधे किं तु (नु) भवतेयं प्रभावती।
विहिता पापतः किंवा कृता दुःखस्य भाजनम् ॥ २९३ ॥
प्रतारितस्तया दुष्टविद्यया तस्य पाप्मनः ।
कृतज्ञो मत्कृते प्राणान्प्रियस्तत्याज मे ध्रुवम् ॥ २९४ ॥
तमनु प्रस्थिता नूनं सर्वेऽप्येतेऽनुजीविनः ।
शोषिते हि न पाथोधौ जीवन्ति जलजन्तवः ॥ २९५॥
तन्मे प्राणेश्वरः(र)प्राप्तः(प्तौ) किंचिदत्याहितं यदि ।
मङ्क्षु मोक्ष्यति तन्नूनं प्रभावत्यपि जीवितम् ॥ २९६ ॥
विकल्पानिति कुर्वन्त्यां तस्यां पर्यश्रुचक्षुषि ।
विशदाश्वोऽपि निश्वासान्विमुञ्चन्नित्यचिन्तयत् ॥ २९७ ॥
ममाफलित एवायमुपकारमहीरुहः ।
हा किमुन्मूलयांचक्रे हतेन विधिदन्तिना ॥ २९८ ।।
बभूव भूपतेः किंचिद्यदि तावदमङ्गलम् ।
तदसावप्यसून्मुञ्चेत्सत्यो हि दयितानुगाः ॥ २९९ ।।