पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८०
काव्यमाला।
3
पौरामात्यादयः पादपीठालुठितमौलयः ।
मुहुः प्रसादयामासुः साश्रुनेत्रममृत्यवे ॥ २७४ ॥ (युग्मम्)
ततोऽविदन्निदं भूमिविडौजस्त्वं विडम्बनाम् ।
जानञ्जीवितमप्येतदापदं च पदे पदे ॥ २७५ ॥
प्रेयसीविप्रयोगार्तः प्रकाममवमन्य तान् ।
चितामासूत्रयामास मेदिनीपतिरात्मने ॥ २७६ ॥
ततः पताकिनीलोकः समस्तोऽपि पृथक् पृथक् ।
निर्ममेऽनुमहीपालं देहत्यागोचिताश्चिताः ॥ २७७ ॥
अर्धमुत्क्षिप्य धर्मांशोरर्थिभ्योऽर्थं वितीर्य च ।
प्रदक्षिणयति स्माग्निं चित्यमौचित्यविन्नृपः ॥ २७८ ॥
चितामध्यं ततो लोके हाकारमुखरानने ।
प्रियामुत्सङ्गमारोप्य विशति स्म विशांपतिः ।। २७९ ॥
अपरोऽपि महीपालप्रसादविवशाशयः ।
अन्तश्चितं चमूलोकः प्रवेष्टुमुपचक्रमे ॥ २८० ॥
चितासप्तार्चिंषि ज्वाला यावद्भूपस्व नोदगुः ।
तावत्सह प्रभावत्या पार्थोऽभ्यागान्नभोऽध्वना ॥ २८१ ॥
बिभ्राणं नवसंवर्तपुष्करावर्तविभ्रमम् ।
व्याप्तान्तरिक्षमद्राक्षीद्धूमस्तोमं कपिध्वजः॥ २८२ ।।
शुश्राव दुःश्रवःसैन्यलोकाक्रन्दगिरोऽर्जुनः ।
विश्राणयन्तीरश्रूणि वनान्तवयसामपि ।। २८३ ॥
स्वकीयैरिव विध्यायमानाः शोकाश्रुवारिमिः।
धूमायमानाः सोऽपश्यत्कोटिशो रचिताश्चिताः ॥ २८४ ॥
सममश्रुजलोत्पीडैः कश्चिदर्थाञ्जलिं जनः ।
रवेरुदस्यन्नुत्पश्यः फाल्गुनेन विलोकितः ॥ २८५ ॥
जानन् जलमिव ज्वालां चितावह्निः कियानपि ।
लोकः प्रदक्षिणीकुर्वन्वीक्षितः सितवाजिना ॥ २८६ ॥