पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।
जानीहि हत एवायमिदानीमहितस्तव ॥
तिग्मद्युतेः परित्रस्तस्तमःस्तोमः क्व लीयते ॥ २४८ ॥
क्षणं तद्भवतात्रैव स्थेयमव्यवसायिना ।
इत्युदीर्य पुनर्जिष्णुः प्रेषयामास केसरम् ।। २४९॥
सोऽपि प्रियावियोगार्तिप्रतप्ताय महीभुजे ।
कथयित्वा यथादिष्टमुपार्जुनमुपागमत् ॥ २५० ॥
किंवदन्तीं प्रभावत्याः सर्वां संविद्य विद्यया ।
व्योमाध्वना दधावेऽथ क्रोधाध्मातः कपिध्वजः ॥ २५१ ॥
धनुर्धरैकधौरेये विद्याविस्फूर्जितोर्जिते ।
प्रियोपलम्भं संभाव्य जिष्णौ नाग्रेऽगमन्नृपः ॥ २५२ ॥
अथ केऽप्यग्रकान्तारे गत्वा हृदयपीडया।
भूवल्लभमभाषन्त प्रत्यागत्य तुरङ्गिणः ॥ २५३ ॥
दिष्टया त्वं वर्धसे देव झगित्यागम्यतां पुरः।
अस्ति प्रभावतीं देवीं कुर्वाणा कुसुमोच्चयम् ॥ २५४ ॥
संपन्नहृदयाश्वासः सोऽथ त्वरितमभ्यगात् ।
मनोभीष्टे हि नेदिष्ठे को न धावति वस्तुनि ।। २५५ ॥
पुरः प्रभावतीं देवीमपश्यत्काश्यपीधवः ।
परं चानन्दसंदोहं गाहते स्मान्तरात्मना ॥ २५६ ॥
प्रस्तौति प्रणयालापं यावदभ्येत्य भूपतिः ।
अकस्माद्दन्दशूकस्तामदशत्तावदुत्फणः ।। २५७ ॥
आर्यपुत्रार्यपुत्राहं दष्टा दुष्टात्मनाहिना ।
इति प्रलापवाचाला बाला मूर्छालतामगात् ।। २५८ ॥
ततः क्षितिपतिः क्षोभादवधीरितधीरिमा ।
क्रन्दन्विषागदंकाराञ्जवांदाह्रास्त विह्वलः ।। २५९॥
यावत्किंचिदुपक्रान्तं प्रचण्डैराहितुण्डिकैः ।
तावत्तेषामचैतन्यं पश्यतामेव साभ्यगात् ।। २६० ॥