पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१७७
ततो रिपुमपाकर्तुं प्रत्याहर्तुं च वल्लभाम् ।
तेन संवर्मयांचक्रे चक्रं शक्रसमश्रिया ।। २३५ ।।
ततः कुतोऽप्यविज्ञातदयितादस्युपद्धतिः ।
-, किंकर्तव्यविमूढात्मा स तस्थौ पृथिवीपतिः ॥ २३६ ॥
स्त्रीजातिस्नेहसंक्रान्तदुःखेवाथ निशीथिनी।
जगाम तां घराधीशप्रेयसीमनुधाविता ॥ २३७ ।।
तत्याज राजलोकस्य हृदयेष्विव सर्वतः।
संक्रान्तः क्षणदाध्वान्तो रोदसीकन्दरोदरम् ॥ २३८ ॥
प्रियापहारिणं हन्तुमुद्यतस्य महीपतेः ।
प्रतिग्रहमिवाधातुमधावत पतिस्त्विषाम् ।। २३९ ॥
तस्याः शिथिलधम्मिल्लमाल्यश्रेणिं निपेतुषीम् ।
करैरदर्शयन्भास्वान्कृपयेवावनीपतेः॥ २४० ॥
चचाल पृथिवीपालस्तया कुसुमलेखया ।
दर्शिताध्वा चमूध्वानैर्भङक्षु कुक्षिंभरिर्दिशाम् ॥ २४१ ॥
इयतीं भुवमायातः स पुष्पश्रेणिमाश्रयन् ।
अभाग्यस्य निधिश्रीवत्तस्या दृश्यात्र साप्यभूत् ॥ २४२ ॥
तस्मिन्नस्तोकशोकार्तिविक्लवे विफल क्रियम् ।
कान्दिशीकं ततोऽनीकं भ्राम्यतीदमितस्ततः ।। २४३ ॥
स दुःश्रवामुपश्रुत्य केसरस्येति भारतीम् ।
कपिकेतुः किमप्यन्तश्चिन्तयन्निदमब्रवीत् ।। २४४ ॥
हिरण्यपुरभूपालहेमाङ्गदसधर्मिणी।
प्रभावती न खल्वेषा मणिचूडस्य सोदरा ॥ २४५ ॥
हन्त स्वसा ममैवेयमपरा वास्तु सापि मे।
कृपालोर्ननु सोदर्या नार्या व्यंसनवारिधेः ।। २४६ ॥
तद्याहि ब्रूहि राजानं मा स्म खेदं वृथा कृथाः ।
अर्जुनः पाण्डवेयोऽयमाहर्ता तव गेहिनीम् ॥ २४७ ॥
२३