पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७५
पाण्डवचरितम् ।
देव दुःखाग्निनिर्दग्धजगत्पीयूषवारिद ।
फलेग्रहि विलोक्य त्वां नेत्रनिर्माणमद्य मे ॥ २०९ ॥
तद्भाग्यमपि भूयोऽपि भाग्यैरेवोपलभ्यते ।
येन त्वं दृश्यसे देव शेवधिः शिवसंपदाम् ॥ २१० ॥
स्वामिन्पुरातनैर्भाग्यबभूव तव दर्शनम् ।
त्वद्दर्शनभवैर्भावि यत्तु किं तस्य कथ्यते ॥ २११ ॥
कृतस्तुतिरिति प्रह्रचेताः श्वेताश्ववाहनः ।
नमस्यति स नाभेयमवनिन्यस्तमस्तकः ॥ २१२ ॥
प्रत्येकं स्वस्वसंस्थानमानवर्णादिशालिनः ।
नमश्चकार तीर्थेशं त्रयोविंशतिमप्यसौ ॥ २१३ ॥
भ्रश्यद्भवभ्रमीसादः प्रासादकमनीयताम् ।
निर्गत्यालोकयश्लाघां कुर्वन्भरतसंपदः ।। २१४ ॥
मूर्तं धर्ममिव ज्ञानज्योतिर्विश्वतमोपहम् ।
वारणं मुनिमेकान्तलीनमेकं ददर्श सः ।। २१५॥
सोऽभिनन्द्य तमानन्दादुपविश्य तदन्तिके ।
भवाम्भोधितरीकल्पामश्रौषीद्धर्मदेशनाम् ॥ २१६ ॥
धर्मोऽयं यैः श्रियो रक्षाकोविदः सौविदः कृतः ।
चिराय ते भजन्त्येतामखण्डितसतीव्रताम् ॥ २१७ ।।
जगद्भयंकरस्मेरसुखसंसारकेसरी ।
धर्मद्रुमाधिरूढानां यदि न प्रभवत्यसौ ॥ २१८ ॥
सिच्यन्ते धर्मकुल्याभिर्मुक्तिशर्ममहीरुहः ।
तासां तटतृणायन्ते सुरासुरनरश्रियः ॥ २१९ ॥
अयं च निर्ममे धर्मस्तथा प्राग्जन्मनिश्चयात् ।
निःशेषभुवनोर्जस्वी यथेदानीमजायथाः ॥ २२० ।
इदं च जगदाधाय दोस्तम्भैरकुतोभयम् ।
भविष्यति भवेऽत्रैव मोक्षलक्ष्मीवयंवरः ॥ २२१ ॥