पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१७३
ततः कार्मुकमारोप्य रोषात्कोपारुणेक्षणः ।
खेचरः स्वयमारेमे बीभत्सुमभिवर्षितुम् ॥ १८३ ॥
ववर्ष शरधाराभिरब्दवत्स यथा यथा ।
प्रकर्षमगमल्लक्ष्मीरर्जुनस्य तथा तथा ॥ १८४ ॥
- पाण्डवेयस्य दोर्दण्डचण्डिमानं विलोकयन् ।
भीतचेतास्ततः सोऽभूदितिकर्तव्यविक्लवः ॥ १८५ ।।
काममुत्थातुकामोऽपि मणिचूडो रणाङ्गणे ।
जिष्णोः सर्वरिपूञ्जिष्णोर्न लेभेऽवसरं क्वचित् ॥ १८६ ॥
व्रतवीर्यविपर्याससंपन्नतृणलाघवः ।
पक्षवातैरिव क्षिप्तः क्वापि कौन्तेयपत्रिणाम् ॥ १८७ ।।
विद्युद्वेगो रणक्षोणेः पलायामास रहंसा ।
संवर्तमारुतावर्तैः कियद्दीपः प्रदीप्यते ॥ १८८ ॥
प्राणत्राणाय संभूय बीभत्सुमभयंकरम् ।
आगत्य विगलन्मानमानेमुस्ते चमूचराः ॥ १८९ ॥
मणिचूडं पुरस्कृत्य विजयो विजयोर्जितः ।
पुरं विवेश पौराणां मनश्चानन्दमेदुरम् ॥ १९॥
प्रविश्य तत्र धात्रीशधाम्नि सत्यप्रतिश्रवः ।
मणिचूडं पदे सद्यः सोऽभ्यषिञ्चत पैतृके ॥ १९१ ॥
स प्राप्य पुनरात्मीयां संपदं संमदप्रपाम् ।
चकाशेऽधिकमम्भोदमुक्तराकामृगाङ्कवत् ॥ १९२ ॥
तैस्तैस्तद्भक्तिकल्लोलैः प्रथमानैः पृथासुतः ।
बहून्मुहूर्तवत्तत्र वासरानत्यवाहयत् ॥ १९३ ॥
मणिचूडमथान्येधुर्मन्युपर्यश्रुलोचनम् ।
'आपपृच्छेऽप्यनिच्छन्तं पार्थस्तीर्थदिदृक्षया ॥ १९४ ॥
ततो विमानमारुह्य जिष्णुर्वर्धिष्णुधर्मधीः ।
पुनः सेनाभिरस्पृष्टमष्टापदगिरं ययौ ॥ १९५॥