पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१६५
स्वैरमस्यां च वीभत्सुरभीर्गच्छन्पुनः पुनः ।
गिरिं धात्रीशिरोरत्नं रत्नसानुमुदैक्षत ॥ ७९ ॥
यस्य निर्झरझात्कारशब्दाद्वैतैकतार्किकी ।
द्रुमैरभ्रंकपैः केषां मुदे नाभूदुपत्यका ॥ ८० ॥
अध्यास्यन्ते स्म तिग्मांशुगभस्तीनामसंस्तुताः ।
यस्य विद्याधरैर्विद्यासिद्धिक्षेत्राणि कन्दराः ।। ८१ ।।
किंनरैः केलिसंगीतनिस्तरङ्गा मृगा अपि ।
यस्मिन्नैक्षन्त मोक्षाय प्राणायामोल्वणा इव ।। ८२ ।।
द्रुमैः कुसुमितैस्तैस्तैर्विलोभितविलोचनः ।
सव्यसाची गिरौ तस्मिन्नारुरोह कुतूहलात् ।। ८३ ॥
इन्द्रनीलावितद्वारं शोणसोपानपद्धतिम् ।
शातकुम्भमयस्तम्भकुम्भसंभारभासुरम् ॥ ८४ ॥
नीरैरनुक्षपं चन्द्रकरव्यतिकरोद्भवैः ।
अदेवमातृकोन्माद्यदुद्यानजगतीरुहम् ॥ ८५ ॥
तत्रोत्फालप्रभाजालनिष्पीताहर्पतिद्युति ।
चन्द्राश्ममयमद्राक्षीदर्जुनो जिनमन्दिरम् ।। ८६ ॥
(त्रिभिर्विशेषकम् )
क्षालिताङ्गस्तदुद्यानदीर्घिकाम्भसि रंहसा ।
मेदुरामोदमादाय तदीयकमलोस्करम् ॥ ८७॥
तस्मिन्नमरनिर्मुक्तपुष्पप्रकरदन्तुरे ।
अविक्षत्कौतुकाक्षिप्तचक्षुः क्षितिपनन्दनः ॥ ८८॥ (युग्मम् )
तत्र प्रदक्षिणीकृत्य त्रियुगादिजिनेश्वरम् ।
बद्धरोमाञ्चमभ्यर्च्य स तुष्टावेति तुष्टिमान् ॥ ८९ ॥
जय नाभिकुलक्षीरनीराकर निशाकर ।
जयाशेषजगदुःखनिदाघजलदागम ।। ९०॥
देव संसारकान्तारपर्यन्तपुरपादपाः ।
पादास्तव भवक्रान्तिविच्छेदाय भवन्तु मे ॥ ९१ ॥