पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
163

पृथग्जनोचिता हन्त केयं कातरताद्य वः।
भवन्मनस एवायमन्तेवासी पविर्ननु ॥ ५३ ॥
ममाङ्गीकृतनिर्वाहवतचर्यावकीर्णिनः ।
युष्मानेवायशः कामं नन्विदं लज्जयिष्यति ॥ ५४॥
तद्बलादनुमन्यध्वमरण्यगमनाय माम् ।
सत्याः सन्तु मुनेर्वाचो ममापि पुरुषव्रतम् ॥ ५५ ॥
इति सस्नेहमापृच्छय बीभत्सौ गन्तुमिच्छति ।
तमस्तान्व्यानशे सर्वान्दिकुञ्जानिव भास्वति ॥५६ ॥
अथानम्य क्रमान्मन्युगद्गदाशीर्गिरो गुरून् ।
प्रीत्यालिङ्गयानुगच्छन्तौ कनीयांसौ न्यवर्तयत् ॥ ५७ ॥
अमङ्गल्यधिया बाष्पबिन्दुपातं निरुन्धती ।
प्रस्थितं पार्थमभ्येत्य जगाद द्रुपदात्मजा ।। ५८ ॥
पुंसां मनाक्क्वचिद्योषिन्मतयो नातिशेरते ।
तदप्युदीर्यते नाथ त्वयारब्धं न साध्विदम् ॥ ५९ ।।
यदियं मन्मनःप्रीतिः प्रस्थिता पुरतस्तव ।
गणनाभिर्दिनानां तु धरिष्ये यदि जीवितम् ॥ ६०॥
पन्थानस्तीर्थशैलानां शिवाः सन्तु तथापि ते ।
-निष्प्रत्यूहं वितन्वन्तु तथापि कुलदेवताः ॥ ६१ ।।
भ्रमन्कान्तारमेकाकी माभूत्क्वापि प्रमद्वरः ।
मलीमसानि चेतांसि साधुष्वपि हि पाप्मनाम् ॥ ६२ ॥
संचरन्पुरुषान्पश्यन्प्रस्थिताननवान्नवान् ।
विद्याः कीर्तीश्च लक्ष्मीश्च नूतनाः काश्चिदर्जयेः ॥ ६३ ॥
तथा किमपि माकार्षीर्भ्रमन्देशाननेकशः।
यथा नाथ वयं स्याम वैमनस्यवशंवदाः ॥ ६४ ॥
पावितं सुकृतैर्न्नातीर्थाभिगमजन्ममिः ।
त्वामुपागतमालिङ्गय मयात्मा पावयिष्यते ॥ ६५ ॥