पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
कश्चिदभ्येत्य बीभत्सोरादेशादथ पार्थिवम् ।
कुन्तीयुधिष्ठिरप्रोष्ठकुटुम्बोपेतमभ्यधात् ॥ २७ ।।
दिष्ट्या त्वं वर्धसे देव भुजैः पार्थस्य यैस्तव ।
पुरजीवधनत्राणात्कीर्तयः सुरभीकृताः ॥ २८ ॥
पुरद्वारि स्थितो मूले सहकारमहीरुहः ।
किंतु विज्ञापयत्येवं देवस्त्वां कपिकेतनः ॥ २९ ॥
अभिद्यत मुनेरद्य प्रजाथै समयो मया ।'
विवेचयन्ति नो किंचित्कुरुवंश्या हि तत्कृते ॥ ३० ॥
करिष्ये तीर्थयात्रां तद्वने द्वादशहायनीम् ।
ताः प्रमाणीभवन्त्वद्य गरीयस्यो मुनेर्गिरः ॥ ३१॥
तन्मे तीर्थाद्रिकान्तारविहाराय प्रसीदत ।
अविघ्नं च करिष्यन्ति युष्मत्पादाः स्थिता हृदि ॥ ३२॥
तामाकर्ण्य गिरं दुःखजननीमवनीपतिः ।
सपरीवार एव द्राग्जगामोपकपिध्वजम् ।। ३३ ॥
स्वेदमेदस्विनिःश्वासः करे धृत्वा किरीटिनम् ।
सोऽन्वशात्किं त्वयारब्धं वत्स विश्वैकवत्सल ॥ ३४ ॥
नवे वयसि कोऽयं ते तीर्थारण्यमनोरथः ।
सुतोपहितभारा हि कुरवो वनवासिनः ॥ ३५ ॥
तदसत्कृत्यमेवैतन्नैव त्वं कर्तुमर्हसि ।
भारे महोक्षवाटे हि किमु दम्यो नियम्यते ।। ३६ ॥
सर्वतोऽस्मत्प्रतापाग्नेर्वैरिवंशान्दिधक्षतः ।
प्रभञ्जनायते वत्स तवैव भुजविक्रमः ॥ ३७ ।।
मागास्ततः क्वचिद्देहि नेत्रानन्दं चिराय मे।
इति जल्पति भूपाले कुन्ती साश्रुरवोचत ॥ ३८ ॥
पितुर्वाचमिमां वत्स नान्यथाकर्तुमर्हसि ।
प्रायश्चित्तं गुरूणां हि वचांसि निखिलैनसाम् ॥ ३९ ॥