पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१५७
क्रमान्मदसरस्तीरसान्द्रदुर्विनयद्रुमम् ।
तौ स्मरानेकपक्रीडावनं यौवनमीयतुः ॥ ४४६ ॥
गुरुस्ताभ्यां गुणारामराजिनी राजकन्यकाः ।
अनेकरसपीपूषवाहिनीरुदवाहयत् ॥ ४४७ ।।
तस्मिन्नेव पुरे सर्वकलानां पारदृश्वरी ।
गणिकानङ्गसेनेति गुणानां जन्मभूरभूत् ॥ ४४८ ॥
तस्यां लावण्यपीयूषसरस्यां रागिणां दृशः ।
मज्जन्त्यः प्राप्य वक्षोजकुम्भौ प्रीतिं ययुः पराम् ॥ ४४९ ।।
यूनां तदीयवैदग्ध्यवागुरापतितं मनः ।
खच्छन्दमदनव्याघविद्धं न पदमप्यगात् ॥ ४५० ॥
द्वावप्युर्वीपतेः पुत्रौ तस्यामासक्तमानसौ ।
तौ मिथः कलहायेतां करिण्यां करिणाविव ॥ ४५१ ।।
कुर्वाणौ कलहं नित्यमत्यन्तोत्रासितत्रपौ ।
खेदादन्येधुराहूय तौ महीपतिरन्वशात् ॥ ४५२ ॥
वत्सौ किमिदमारब्धं मलीमसकुलोचितम् ।
कलहायेत नान्योऽपि वेश्यार्थे किमु वान्धवौ ।। ४५३ ।।
स्वल्पाप्युज्जृम्भते यासु न प्रेमसलिलार्द्रता ।
सुखशाखिप्ररोहस्तु कस्तास्वद्रिशिलास्विव ॥ ४५४ ॥
विलोकन्तेऽन्यमन्यस्य कण्ठाश्लेषं वितन्वते 1
चित्ते दधति याश्चान्यं तासु वेश्यासु का रतिः ।। ४५५ ॥
यासां काप्यार्द्रता तावद्यावदानाम्बुवृष्टयः ।
वेश्यासु मरुदेश्यासु तासु रज्येत कः सुधीः ।। ४५६ ॥
निर्धनत्वादिपुष्पस्य नरकादिफलस्य च ।
मूलं वेश्यैव जानीत महाव्यसनशाखिनः ॥ ४५७ ।।
नित्यमित्यादिभिर्वाक्यैर्भूभृता बोधितावपि ।
तौ नितान्तमयुध्येतामत्यन्तोत्सिक्तमत्सरौ ।। ४५८ ॥