पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६
काव्यमाला।
तावव्द्योम्ना महापुञ्जधौतदिकुञ्जकालिमा ।
आययौ नेत्रपीयूषनीरदो नारदो मुनिः ॥ ४३३ ॥
प्रीतान्तःकरणः काममभ्युत्थानासनादिभिः ।
पाण्डवेभ्योऽनुशिष्टिं स विततार हरेर्गिरा ॥ १३४ ॥
आकर्ण्य कर्णपीयूषं युष्मदुद्वाहमङ्गलम् ।
प्राप्तोऽस्मि परमब्रह्मलयादप्यधिकां मुदम् ॥ ४३५ ॥
वत्साः किंत्वेकजानित्व किंचिदन्तर्दुनोति वः ।
वैरवारिधरोल्लासप्रावृषः खलु योषितः ।। ४३६ ।।
आरूढस्य परां प्रौढिं बन्धुस्नेहमहीरुहः ।
हन्त दावानलज्वालामाहुर्मृगविलोचनाम् ॥ ४३७॥
स्रोतस्विनीप्रवाहाणामिव बान्धवचेतसाम् ।
द्वैधीभावकरी शैलतटीव तरलेक्षणा ॥ ४३८ ॥
वत्साः कुटुम्बसंहारकारणं हरिणेक्षणाः ।
यथा समभवत्पूर्वमाकर्णयत तां कथाम् ।। ४३९ ॥
अस्ति रत्नपुरं नाम पुरं भरतभूषणम् ।
न यत्रार्थिजनाभावात्कोऽपि त्यागीति विश्रुतः ॥ ४४० ॥
तत्र श्रीषेण इत्यासीद्दासीभूतरिपुर्नृपः ।
न्यायविक्रमयोर्येन धर्मः संधिकरः कृतः ॥ ४४१॥
तस्याभिनन्दितेत्याद्या द्वितीया शिखिनन्दिता ।
प्रिये बभूवतुः प्रीतिरती इव मनोभुवः ॥ ४४२ ॥
सतीललाम सूते स नन्दनावभिनन्दिता ।
जगदुद्द्योतनौ प्राची सूर्याचन्द्रमसाविव ॥ ४४३ ॥
इन्दुषेण इतीन्दुश्रीराद्योऽभून्नयनोत्सवः ।
स्मरलीलालताकन्दो विन्दुषेणस्ततोऽपरः ॥ ४४४ ॥
कुमारयोस्तयोः शङ्के शास्त्रस्पर्धानुबन्धतः ।
शस्त्रमप्यभवत्सर्वजगतो मात्रयाधिकम् ॥ ४४५ ॥
.