पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१५३
नवीनयौवनावासहेतोरिव तदङ्गके ।
तर्कुसूत्रमिषात्सूत्रं स्वगोत्राविधवा दधुः ।। ३९४ ।।
जृम्भते स्म भृशं विश्वश्रोत्रपीयूषवर्षिणः ।
कुललीलावतीवर्गमङ्गलध्वनयस्तदा ॥ ३९५ ॥
चिक्षिपुः कुलवामाक्ष्यो द्रौपदीमिति वर्णके ।
तथैव तस्याः सानन्दमुद्वर्णकमपि व्यधुः ।। ३९६ ॥
अथान्तःक्षिप्तकर्पूरकस्तूरीकुङ्कुमैरिव ।
वारिभिः स्नपयांचक्रुः कवोष्णैर्नित्ययौवनाम् ॥ ३९७ ॥
मार्जितं गन्धकाषाय्यात्पाञ्चाल्याः शुशुभे वपुः ।
नवमाणिक्यपाञ्चाल्या इव तत्कालसंस्कृतम् ॥ ३९८ ॥
आचार इति तास्तैस्तैभूषणैस्तामभूषयन् ।
नहि प्रकृतिरम्याणामाहार्यैः काप्यलंकृतिः ॥ ३९९ ॥
लावण्यवारिधाराभिर्वर्षन्तीव दशामिषात् ।
पारिनेत्रदुकूलानि सा तदा पर्यधाप्यत ॥ ४००॥
उत्पाद्य योषितो हर्षादिमां मातृगृहेऽनयन् ।
आसयंश्च स्मरस्मेरलोचनां काञ्चनासने ॥ ४०१ ॥
पाण्डवा अपि निर्वृत्तवर्णकोद्वर्णकक्रियाः ।
निर्माय मङ्गलस्नानमामुक्तोचितभूषणाः ॥ ४०२ ॥
औपवाह्यानथारुह्य वारणेन्द्रान्पृथक्पृथक् ।
समं पञ्चापि पाञ्चालीं परिणेतुं प्रतस्थिरे ॥४०३॥ (युग्मम्)
मौलिनीलमणिज्योतिर्भानुज्योतिःपराहतम् ।
मूर्ध्नीव पिण्डितं तेषां मायूरच्छत्रमाबभौ ॥ १० ॥
रेणुर्मङ्गलतूर्याणि पुरस्तेषामनेकशः ।।
तारैराकारयन्तीव दिशामीशान्प्रतिस्वनैः ॥ १०५ ॥
पश्चादुच्चेरुरद्रीन्द्रकन्दरादारणोल्बणाः ।
शात्रवावस्थितिक्रोधादिव निस्वाननिस्वनाः ।। १०६ ।।