पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१५१
आहूय तेन सोऽम्भोभिः स्नापयित्वा सुगन्धिभिः ।
विलिप्य चन्दनैर्दिव्यवासांसि परिधाप्य च ॥ ३६८ ॥
ऊचे तुभ्यं मया दत्ता पुत्रीयं सुकुमारिका ।
मदीयां विलसन् लक्ष्मीं सुखमास्व सहानया ॥३६९॥(युग्मम्)
इत्युक्तः सोऽविशद्वासवेश्म साकं तया निशि |
मेने च तद्वपुःश्लेषमग्निप्लोषमिवात्मनः ॥ ३७० ॥
सहसोत्थाय वेषं स्वमादाय स पलायितः ।
तथैव रुदतीं तां च विलोक्य जनकोऽब्रवीत् ॥ ३७१ ॥
सोऽयं प्राक्कर्मणां वत्से विपाकोऽन्यन्न कारणम् ।
तदास्व ददती दानं शान्तात्मा मम वेश्मनि ॥ ३७२ ॥
तथैव कुर्वती तस्थौ सा धर्मैकपरायणा ।
प्रापुस्तद्गेहमन्येद्युः साध्व्यो गोपालिका इति ॥ ३७३ ॥
शुद्धैरशनपानाद्यैः सा भक्त्या प्रतिलाभ्य च ।
तन्मुखाद्धर्ममाकर्ण्य विरक्ता व्रतमग्रहीत् ॥ ३७४ ॥
तपोऽथ कुर्वती नित्यं तुर्यषाष्ठाष्टमादिकम् ।
आर्यिकाभिः सहैताभिर्विहारमकरोदियम् ॥ ३७५ ।।
आर्यास्ताः सा कदाप्यूचे तनोम्यातापनामहम् ।
सुभूभिभागोद्यानस्था दत्तदृष्टिर्विवस्वति ॥ ३७६ ॥
सा प्रत्यभिदधे ताभिरिति ह स्मागमोक्तयः।
आतापना न साध्वीनां कल्पते वसतेर्बहिः ॥ ३७७ ॥
अनाकर्ण्य च तद्वाचं वने तस्मिन्नुपेत्य सा ।
यावदारभते क्षिप्तचक्षुरातापनां रवौ ॥ ३७८ ॥
तावदुत्सङ्गमेकस्य श्रयन्तीमपरस्य तु ।
अङ्के न्यस्ताङ्घ्रिमन्येन बध्यमानावतंसकाम् ॥ ३७९ ॥
परेणावधृतच्छत्रां वीजितामितरेण च ।
गणिकामागतां तत्र देवदत्तां ददर्श सा ॥ ३८० ॥
(त्रिभिर्विशेषकम् )