पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५०
काव्यमाला।
सोऽप्यूचेऽतिप्रिया मेऽसौ न भवाम्यनया विना ।
ममास्तु गृहजामाता सागरस्तत्तवात्मजः ।। ३५५ ॥
सुतमालोचयामीति जिनदत्तोऽगमद्गृहम् ।
सागरस्य तदाख्यच्च मौनमालम्ब्य स स्थितः ॥ ३५६ ॥
अनिषिद्धं ह्यनुमतमिति न्यायेन तत्पिता ।
मेने
सागरदत्ताय गृहजामातरं सुतम् ।। ३५७ ॥
आश्चर्यकृत्तयोर्जज्ञे पाणिग्रहमहोत्सवः ।
नक्तं शिश्रियतुस्तौ च पल्यङ्कं वासवेश्मनि ॥ ३५८ ॥
पूर्वकर्मवशात्तस्याः स्पर्शमङ्गारसोदरम् ।
आसाद्य सागरस्तस्थौ क्षणं तत्र कथंचन ॥ ३५९ ॥
तस्यां सुखप्रसुप्तायां स प्रणम्य गृहं ययौ ।
निद्रात्ययेऽरुदत्कान्तमपश्यन्तीं च सा भृशम् ।। ३६० ।।
अथादिष्टा तयोर्दन्तशौचहेतोः सुभद्रया।
प्रातरैक्षिष्ट तां चेटी रुदन्तीं वल्लभोज्झिताम् ॥ ३६१ ॥
सा गत्वाख्यत्सुभद्रायै सापि स्वप्रेयसे क्षणात् ।
पितुरेषोऽपि जामातुरुपालम्भं ददौ स्वयम् ॥ ३६२ ॥
सोऽप्याह तनयं वत्स न युक्तं विदधे त्वया ।
गच्छाधुनापि तत्तत्र मान्यथा मद्वचः कृथाः ॥ ३६३ ॥
सागरेऽप्यूचिवानग्नौ वरं झम्पां तनोम्यहम् ।
न पुनस्तात गन्तास्मि वेश्म तस्याः कदाचन ॥ ३६४ ॥
इदं सागरदत्तोऽपि तत्कुड्यान्तरितोऽशृणोत् ।
जगाद च गृहं गत्वा निराशः सुकुमारिकाम् ॥ ३६५ ॥
कथंचित्सर्वथा वत्से विरक्तः सागरस्त्वयि ।
तन्मा खिद्यस्व कोऽप्यन्यः पतिस्तव विधास्यते ॥ ३६६ ॥
कौपीनाम्बरमात्रैककर्परं मक्षिकावृतम् ।
भिक्षुकं कंचिद्राक्षीत्स गवाक्षस्थितोऽन्यदा ॥ ३६७ ॥