पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।
अथ क्रमात्समायाते भुक्तिवारकवासरे ।
नागश्रीराश्रितानेकरसां रसवतीं व्यधात् ॥ ३२९ ॥
कटुतुम्बीफलं तस्यामनेकद्रव्यसंस्कृतम् ।
अपाक्षीदियमज्ञासीत्पाकान्ते च कथंचन ।। ३३०॥
नानावस्तुव्ययोद्भूतकार्पण्येन न सात्यजत् ।
केवलं क्वचिदेकान्ते निधाय तदधारयत् ॥ ३३१ ।।
तदन्यैर्विविधैर्भोज्यैः स्वादुभिः पतिदेवरान् ।
भोजयामास सा प्रीता क्षणात्तेऽपि बहिर्ययुः ॥ ३३२ ॥
तदा सुभूमिभागाख्ये पुरोधाने महामनाः ।
धर्मघोषाभिधः सूरिनिवान्समवासरत् ॥ ३३३ ॥
तस्य धर्मरुचिः शिष्यो मासक्षमणपारणे ।
किरात्या इव कल्पद्रुर्गृहं नागश्रियो ययौ ॥ ३३४ ॥
वृथा मा भूदिदं तावद्भवेदेषोऽपि तोपितः ।
इत्यालोच्य तथा तस्मै तत्तुम्बीव्यञ्जनं ददे ॥ ३३५ ॥
अपूर्वमिति संचिन्त्य तद्ग्रहानुग्रहेच्छया ।
असौ वसतिमागत्य गुरूणां तददर्शयत् ॥ ३३६ ॥
तेऽपि तद्गन्धमाघ्राय वात्सल्यादिदमूचिरे ।
यदीदं भोक्ष्यसे वत्स सद्यो मृत्युमवाप्स्यसि ॥ ३३७ ॥
विशुद्ध स्थण्डिले मङ्क्षु तत्परिष्ठापय क्वचित् ।
इत्यादेशाद्गुरोः सोऽपि जगाम नगराद्बहिः ।। ३३८ ॥
बिन्दौ निपतिते तस्य कथंचित्तत्र पात्रतः ।
सक्ताः स मुनिरद्राक्षीन्म्रियमाणाः पिपीलिकाः ॥ ३३९ ॥
दध्यौ च बद्धसंवेगो बिन्दुरप्यस्य यद्यसौ ।
प्राणिनामियतां हन्ता तत्सर्वं किं करिष्यति ॥ ३४० ॥
वरमेकस्य मे मृत्युः कोटिशो न तु देहिनाम् ।
इत्यालोच्य सरोमाञ्चस्तदसौ बुभुजे स्वयम् ॥ ३४१ ॥