पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१४.७
किमेषामपि भाग्येन दत्तभूयिष्ठसौष्ठवः ।
कर्मेदमादधे जिष्णुरिति पाण्डुर्विसिष्मिये ॥ ३१६ ॥
परिवेत्ता भविष्यामि नाहमुद्वाहशालिनि ।
तपासुते च भीमे चेत्यप्रीयत कपिध्वजः ॥ ३१७ ॥
पञ्चभ्यस्तनयामेकां नामीभ्यो दातुमुत्सहे।
ददानो हि गमिष्यामि साधूनामुपहास्यताम् ॥ ३१८ ॥
वरमाला च पञ्चानामपि कण्ठे लुलोठ सा ।
दिव्यवाक् क्वेयमुत्तस्थौ तत्किं नाम भविष्यति ॥ ३१९ ॥
इति चिन्तातुरो यावदभूद्रुपदभूपतिः ।
चारणश्रमणः कश्चित्तावदागादिवोऽध्वना ॥ ३२० ॥
(त्रिभिर्विशेषकम् )
दिशः काञ्चनकान्ताभिर्दिहानं देहकान्तिभिः ।
परमज्योतिषः प्रान्तं विवर्तमिव मूर्तताम् ॥ ३२१ ॥
तमभ्युदस्थुः पाञ्चालविष्वक्सेनादयो नृपाः ।
स्फुरदम्भोरुहारामपवमानमिवालिनः ॥ ३२२ ॥ (युग्मम् )
तमासयित्वा सर्वेऽपि रत्नसिंहासने मुनिम् ।
धात्रीलुठितमूर्धानः प्रणेमुः पृथिवीभुजः ॥ ३२३ ॥
अथावसरमासाद्य देशनान्ते मुनीश्वरम् ।
किं धवाः पञ्च पाञ्चाल्या इत्यपृच्छज्जनार्दनः ॥ ३२४ ॥
सोऽब्रवीदेतया पूर्वजन्मोपात्तनिदानया ।
वृताः पञ्च धवास्तद्भो कृतं मीमांसयानया ।। ३२५ ॥
पुरा हि पुरि चम्पायां भूमिदेवास्त्रयोऽभवन् । '
सोमदेवसोमभूतिसोमदत्ताः सहोदराः ॥ ३२६॥
तेषामासन्क्रमात्तिस्त्रः प्रेमजन्मभुवः प्रियाः ।
नागश्रीरथ भूतश्रीर्यक्षश्रीश्चेति नामतः ॥ ३२७ ।।
मिथः स्निग्धतया तेषामियमासीब्द्यवस्थितिः ।
यत्पर्यायेण भोक्तव्यं सर्वैरेकस्य वेश्मनि ॥ ३२८ ॥