पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१४५
शनकैराकृषेर्वत्स चाफ्मेतच्चिरंतनम् ।
सहिष्यते न ते सारमिति भीमेऽनुशासति ॥ २९१ ॥
आसनाद्रभसोत्तालवाचालवदनोदरे ।
पश्यति द्रुतमुत्थाय पृथिवीपालमण्डले ॥ २९२ ॥
कुतूहलान्मिलन्तीनां सिद्धगन्धर्वयोषिताम् ।
व्योम्नि चक्रैर्विमानान्तर्लक्षितैः शतचन्द्रिते ॥ २९३ ।।
सुहृद्वपुषि रोमाञ्चः प्रस्वेदो द्वेषिवर्ष्मणि ।
काण्डः कोदण्डदण्डे च संदधे सव्यसचिना ॥ २९४ ॥
(चतुर्भिः कुलकम् )
अथान्तस्तैलकुण्डस्य प्रतिबिम्बवतामधः ।
जवेन भ्राम्यतां तेषां चक्रकाणामरान्तरे ॥ २९५ ॥
लक्ष्यीकुर्वन्नमद्वक्रो राधाया वाममीक्षणम् ।
ऊर्ध्वीकृत्य दृशं पूर्वा वक्षोऽन्तम(र)परां नयन् ॥ २९६ ॥
कटाक्षैः सह कृष्णायाः कुन्त्याः प्रस्रवनिर्झरैः ।
पितुरानन्दबाष्पैश्च चकर्ष धनुरर्जुनः ॥ २९७ ॥
(त्रिभिर्विशेषकम् )
तथाभूतः स भाति स्म हन्तुं देवानिवोद्यतः ।
दीनं च तन्मुखाम्भोजमनीक्षितुमना इव ॥ २९८॥
अदभ्रसंभ्रमैः कैश्चिदासनात्पतयालुभिः ।
स्थगयद्भिः श्रुती पाणिपल्लवाभ्यां च कैश्चन ॥ २९९ ॥
उद्बुद्धसाध्वसैः कैश्चित्परिभ्रष्टोत्तरीयकैः ।
अभिभूरिभयोद्भ्रान्तैर्वेपमानैश्च कैश्चन ॥ ३०॥
मिन्दानोऽद्रितटीस्तन्वन् शब्दाद्वैतमयं जगत् ।
फाल्गुनाकृष्टकोदण्डक्रेंकारः श्रूयते स्म सः ॥ ३०१ ॥
(त्रिभिर्विशेषकम् )
मन्ये तस्माद्धनुर्ध्वानात्रस्तैरश्वैर्विवस्वतः ।
एकचक्रो रथश्चक्रे मेरोरास्फाल्य सानुषु ॥ ३०२ ॥
१९