पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
एते तु भगदत्ताश्वत्थामभूरिश्रवाशलाः।
जयद्रथमहासेनचारुदेष्णादयोऽपि च ॥ २६५ ॥
तथैव तस्थुर्दोःस्थाम निजमालोच्य चेतसि ।
सतामात्मज्ञता नाम महर्द्धिमहिमास्पदम् ॥ २६६ ॥ (युग्मम् )
प्रचेलुर्मञ्चतः पश्य देवि भ्रूसंज्ञया हरेः।
विस्मयस्मेरराजन्यनेत्रनीराजिताननाः ॥२६७ ॥
कटाक्षकोटिमिः प्रत्युद्याताः कस्याश्चिदादरात् ।
स्मरेषव इवोच्चण्डाः पाण्डोः पञ्चापि सूनवः ।। २६८ ॥
देवि पञ्चभिरप्येतैः कुलं कुरुनरेशितुः ।
पाण्डवैर्मण्डयांचक्रे शरीरं करणैरिव ॥ २६९ ॥
रसो वीरश्च शान्तश्च व्योम्नीवार्कनिशाकरौ ।
तिष्ठतो यत्र किं नाम तस्याजातरिपोस्तु वै ॥ २७० ॥
भुजैर्युद्धेष्वरिस्तोमयमयोर्यमयोरपि ।
स्वकुरङ्गादृशां भर्तृसुभिक्ष निर्ममेतमाम् ॥ २७१ ॥
रिपुघ्नं युधि नामापि भीमफाल्गुनयोः पुनः ।
हरेर्वित्रासयत्येव प्रतिशब्दोऽपि दन्तिनः ॥ २७२ ॥
योम्नि त्रस्तसुरस्त्रैणे प्रहितैः कलितैः पुनः ।
युधि क्रीडति भीमोऽयं कुञ्जरैः कन्दुकैरिव ॥ २७३ ॥
अर्जुनस्य पुनर्बाणाः शत्रुप्राणापहारिणः ।
अभुक्ता अपि चापेन विविशुः कस्य नो हृदि ।। २७४ ॥
शरैर्यस्यारिनारीणां लूनाः पत्रलतास्तथा ।
यथा सह व्यलीयन्त कटाक्षसुमनोलिहः ॥ २७५ ॥
इयमस्थादकल्पान्तस्थायिन्येषां तु भूरिति ।
मन्ये यन्मार्गणा लक्ष्यमादायापि श्रयन्ति ताम् ॥ २७६ ।।
यस्य वाणा रणे वक्षो मन्थन्ति प्रतिपन्थिनाम् ।
तच्छुद्धान्तवधूनां तु स्रंसन्ते हारवल्लयः ॥ २७७ ॥