पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२
काव्यमाला।
अन्धसा कंसरूपेण कीनाशं भोजयिष्यता।
चाणूराद्याः कृता येन तेऽफलाः फलिकापदे ॥ २५ ॥
कंसः क्षेत्रेषु भास्वान्यत्प्रतापः पत्रवल्लरीः ।
अशोषयत्तथा भूयः प्ररोहन्ति स्म नो यथा ॥ २५३ ॥
द्वैराज्यस्य द्विषन्कंचित्स्वदायादमवेक्षितुम् ।
विवेश हृदि नो कस्य यद्भुजस्तम्भविक्रमः ॥ २५४ ॥
वैरिनारीदृशो यस्य ददतीवाश्रुकैतवात् ।
प्रियस्यास्तमुपेतस्य विलासस्य जलाञ्जलिम् ॥ २५५ ॥
वक्षोऽङ्कितं द्विषद्दन्तिदन्ताघातकिणार्बुदैः ।
यस्य श्रीराश्रयद्दुर्गमिवानेकाद्रिदुर्ग्रहम् ॥ २५६ ॥
असौ लोलेक्षणे सर्वकर्मीणभुजवैभवात् ।
कर्मणीह कृतोत्साहान्सुतानपि निषेधति ।। २५७ ॥
धृतराष्ट्राङ्गभूर्योधलक्षयोधी सुयोधनः ।
स एष मातुर्गान्धार्या रोमाञ्चेन सहोत्थितः ।। २५८ ॥
यस्यांसशैलमालम्ब्य घनपल्लवितश्रियम् ।
कुरुवंशः परां कांचिदुत्तंसयति संपदम् ॥ २५९ ॥
आकृप्य प्रीतिलुण्टाकीः सुहृच्चेतोनिकेतनात् ।
योऽसूत्रयद्भियः शत्रुमनःकाराकुटुम्बिनीः ॥ २६० ।।
केचित्तत्कालमानम्राः क्षणात्केऽपि पलायिताः ।
नास्य यस्याभ्यमित्र्यस्याप्यपश्यन्वैरिणो रणे ॥ २६१ ॥
त्राणाय शत्रुभिर्यस्य बृहत्कटकशालिनः ।
उभयेऽपि निषेव्यन्ते महीयांसो महीभुजः ॥ २६२ ॥
दर्पादिप्वासमादातुं नम्रीभूतोऽपि भामिनी ।
हेतोः कुतोऽप्यसौ कामं नमस्यति महाभुजः ॥ २६३ ॥
अन्येऽपि धृतराष्ट्रस्य सुता दुःशासनादयः ।
दोर्वैभवावधिं वीक्ष्य निपीदन्ति विपादिनः ।। २६४ ॥