पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
१४१
धनुर्वेदकृतं ज्ञानचक्षुरागवस्थितम् ।
प्रयोगः पुनरेतस्य ततोऽपि पुरतोऽगमत् ॥ २३९ ।।
समरे येन निर्माय मण्डपं काण्डपङ्क्तिभिः ।
पाणौ चक्रे परासूनां द्विषां श्रीरपि रक्षिता ॥ २४० ॥
मार्गणाः संगरे यस्य पश्चान्मुञ्चन्ति कार्मुकम् ।
द्विषां प्राणास्तु तद्भेदभियेव पुरतो ययुः ।। २११ ।।
संयुगे यस्य पश्यद्भिरिष्वासाभ्यासलाघवम् ।
स्ववीरैः कृतकृत्यैव मन्यते निर्निमेषता ॥ २४२ ॥
दत्ते लक्ष्यमसौ प्राणानप्यस्य रिपवः पुनः।
तत्कं स्तुम इतीवावाङ्मुखा यन्मार्गणा रणे ।। २४३ ॥
अथास्यामिति जल्पाक्यामुन्मीलत्स्वेदमेदुरा ।
श्यामीभवन्मुखाम्भोजा पाञ्चालीदमचिन्तयत् ॥ २४४ ॥
सूतसूतिरिति ख्यातो जगत्येकधनुर्धरः ।
असिंश्च रमते हन्त मनो मे न मनागपि ॥ २४५ ॥
रति त्वेतेऽङ्गजन्मानः पाण्डोस्ताण्डवयन्ति मे ।
विडम्बयितुमारब्धा तत्किं नामास्मि वेधसा ।। २४६ ।।
मया बद्धोऽञ्जलिर्बाढमयं वः कुलदेवताः ।
रक्षणीयः पतिः पाण्डोरात्मजेभ्यो ममापरः ॥ २४७॥
इति पृथ्वीपतेः पुत्रीमन्तश्चिन्तां वितन्वतीम् ।
व्याजहार प्रतीहारी पुनः श्रोत्रामृतं वचः ॥ २४८॥
हेलया चापमारोप्य हठग्रहकुतूहली ।
राधावेधी न राधेयो जनन्या नामसाम्यतः ॥ २४९ ॥
परं त्वत्कुलदेवीनां प्रभावः प्रहतौजसः ।
नहि स्वयंवरक्षोभे कस्यापि प्रभविष्णुता ॥ २५० ॥
बलपद्युम्नसाम्बाद्यैः प्रवीरैः परिचारितः ।
अद्याप्यासीन एवास्ते कृष्णः केनापि हेतुना ।। २५१ ॥