पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।
उपत्यकावने यस्य क्रीडतः प्रेयसीजुषः ।.
विलासवेश्मतां यान्ति गोवर्धनगिरेर्गुहाः ।। २१३ ॥
किमेकपर्षदं राज्ञामवज्ञायोपहासिनीम् ।
अवतीर्यावनौ मञ्चं पुनरप्यधिरोहति ॥ २१४ ।।
विराटाधिपतिः सोऽयमासनादुच्चलन्निव ।
लक्ष्यते मृगशावाक्षि वीरलक्ष्मीस्वयंवरः ॥ २१५॥
काङ्क्षन्ती कीर्तिसंहर्षात् द्यामारोढुमिवोच्चकैः ।
देवि यस्यांसशैलाग्रमश्रान्तं श्रीरशिश्रियत् ॥ २१६॥
करसंपर्कमासाद्य यस्य सूते धनुर्लता ।
शरश्रेणीं च कीर्ति च युगपद्वैरिदुःसहाम् ।। २१७ ॥
भूपतिः किमियं भूमिमागत्य कियतीमपि ।
जातस्तम्भ इवाकस्मात्तस्थौ चित्र इवार्पितः ॥ २१८ ॥
असौ वैरिमनःशल्यं शल्यो नाम सुमध्यमे ।
उज्जिहीते जगन्नेत्रानन्दी नन्दिपुरेश्वरः ॥ २१९ ॥
आरोहति परां कोटिं गुणश्चापस्य चास्य च ।
परेभ्यः शरणायातानरातीनपि रक्षतः ।। १२० ॥
यत्खङ्गदण्डे निःश्वासपवनं पीडयत्यपि ।
स्फुरन्ति चित्रं शत्रूणां भाले धर्मोदबिन्दवः ॥ २२१ ।।
उल्लसद्दैवतज्योतिःपराहतविलोचनः ।
चापमप्येतदब्जाक्षि क्षमते नायमीक्षितुम् ।। २२२ ।।
कुमारः सहदेवोऽयं देवि देवसमाकृतिः ।
दूरादुपहसन्नेनं झगित्यासनमत्यजत् ॥ २२३ ॥
अस्ति दोर्विक्रमाक्रान्तत्रिखण्डक्षितिमण्डलः ।
जैत्रकीर्तिर्जरासन्धो राजा राजगृहेश्वरः ।। २२४ ॥
आहुतीकृत्य भूदेवो यश्चक्रोदर्चिषि द्विषः ।
प्रतापं वर्धयामास यशश्चागमयद्दिवम् ॥ २२५ ॥