पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८
काव्यमाला।
तस्मिन्नूर्ध्वमस्तिर्यक्संक्रान्तप्रतियातना ।
पाञ्चाली काममेकापि बभार बहुरूपताम् ॥ २००॥
ऊर्ध्वीकृत्य भुजं लोकतुमुलं प्रतिषिध्य च ।
धृष्टद्युम्नस्ततो वाचमुवाच द्रुपदात्मजः ।। २०१॥
दोर्दण्डचण्डिमाक्रान्तजगतो जगतीभृतः ।
गिरमेतां शुभां कर्णे सर्वेऽप्याकर्णयन्तु मे ॥ २०२॥
साक्षीकृत्य वियत्यर्कसिद्धगन्धर्वखेचरान् ।
क्षितौ च ललनाबालगोपालप्रमुखं जनम् ॥ २०३ ॥
इदमस्मत्कुलोत्तंसं देवताशतसेवितम् ।
चापमारोपयन्कोऽपि राधावेधं विधास्यति ॥ २०४ ॥
भुवनाद्भूतसौभाग्यभागिनी भगिनी मम ।
शौण्डीर्यवेतनं तस्मै क्लृप्तोऽयं कल्पयिष्यते ॥ २०५॥
(त्रिभिर्विशेषकम्
अथाभ्युत्तिष्ठतो भूपान्कार्मुकारोपकर्मणि ।
प्रगल्भवाक्प्रतीहारी याज्ञसेन्यै व्यजिज्ञपत् || २०६॥
भूपतिर्दमदन्तोऽयं रिपुदन्तिमदान्तकृत् ।
चापारोपार्थमुत्तस्थौ देवि त्वदभिलाषुकः ॥ २०७ ।।
श्रियो विहितविश्रान्तर्यस्य दोर्दण्डमण्डपे ।
भाति वैडूर्यपर्यङ्क इव ज्याकर्णपद्धतिः ॥ २०८ ॥
संमुखीनकृतेनायमागच्छन्विनिवारितः ।
आसने पुनरप्राप्ततेजोहानिरुपाविशत् ॥ २०९ ॥
उत्तिष्ठत्येष वामाक्षि धरो नाम धराधवः ।
नवालवालं यत्कीर्तिवीरुधो मधुरापुरी ।। २१० ॥
यच्छुद्धान्तवधूनेत्रकजलैर्जलकेलिषु ।
हृतैरिव बभूवेयं कालिन्दी कालिमास्पदम् ॥ २११ ॥
यमुनाया इवासत्तेः प्रकामश्यामलत्विषः ।
तन्वते तन्वि यन्नेत्रानन्दं वृन्दावनद्रुमाः ॥ २१२ ॥