पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।
विमानरत्नमारुह्य नरवाह्यं नृपात्मजा ।
व्योमाङ्कमिन्दुलेखेव स्वयंवरमवातरत् ॥ १७३ ॥
(चतुर्भिः कलापकम्
तां भवानीभ्रमान्नेत्रैरेकहेलानिपातिभिः ।
भूपाः सौभाग्यभाग्याय भेजुरिन्दीवरैरिव ॥ १७५ ॥
तस्मिन्शिल्पाद्भुते विश्वशिल्पिनः कन्यकामये ।
दूत्यायेव मनः सर्वे प्राहिण्वन्नवनीभुजः ॥ १७६ ॥
तां पश्यन्तोऽतिनिर्बन्धात्सर्वेऽप्युर्वीभुजस्तदा ।
स्वनेत्रायापि तेऽकुप्यन्निमेषमधिकुर्वते ॥ १७७ ॥
तां दृशामुत्सवं ज्योत्स्नामेवमेवापि पश्यते ।
ईर्ष्यामासुर्मुहुः प्राणप्रियाय सुहृदेऽपि ते ॥ १७८ ॥
समस्तकरणस्तोमस्तैस्तदा निखिलैरपि ।
व्यापार लोचनस्यैव कलयन्नभ्यलक्ष्यत ।। १७९ ॥
तेषामनीक्षमाणस्य मृगाक्षीं तां शतक्रतोः।
निन्दास्पदं तदा नेत्रसहस्रत(?)मप्यभूत् ।। १८० ॥
प्रलोभनाय तच्चेतोमृगस्य स्वैरचारिणः ।
रोमहर्षमियादेते दधुर्दूर्वाङ्कुरोत्करान् ।। १८१ ।।
जगन्नयनपीयूषनवकादम्बिनीमिमाम् ।
पश्यन्तश्चिन्तयामासुरन्तः सर्वेऽपि भूभुजः ।। १८२ ।।
भुवनस्य य एवास्य निर्मातास्याः स एव न ।
तदीयशिल्पिसीमा हि स्थिता गौरीन्दिरादिषु ॥ १८३ ॥
यद्वा तस्यापि यः कश्चिदाचार्यः शिल्पकर्मणि ।
त्रिलोकीमण्डनं नूनमियं तेनैव निर्ममे ॥ १८४ ।।
मुखेन्दू रचयत्यस्या नित्यराकामयीं महीम् ।
जडप्रकृतिरेवायमुद्गच्छन्मृगलाञ्छनः ।। १८५ ॥
चक्षुर्निमज्जदेतस्या लावण्यक्षीरसागरे ।
उरोन्तरीयमासाद्य निर्वृतिं लभते यदि ॥ १८६ ॥