पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।
असौ विशदकौशेयसंवीतवपुरावभौ ।
तपस्यासमये गङ्गावीचिश्लिष्टेव पार्वती ॥ १६१ ।।
तस्याश्चकाशे माणिक्यकिरीटकिरणोत्करः ।
उदेष्यत इवानङ्गतरणेररुणोदयः ॥ १६२ ॥
निर्मलः संपदे सद्यः श्रितानामिति नान्यथा (1)।
द्विरुक्तिमीयतुस्तस्याः कुण्डले तेन गण्डयोः ॥ १६३ ॥
कर्णोत्तंसमणिन्याजादेत्य देवः स्वयं सरः ।
तस्याः कटाक्षविक्षेपनिदेशाकाङ्क्षया स्थितः ॥ १६ ॥
जगज्जिगीषोः कामस्य तस्या वक्षःस्थलाश्रमे ।
तपस्यतोऽक्षमालेव भाति स्मैकावलिच्छलात् ॥ १६५ ॥
परितो रत्नकेयूरमरीचिपटलच्छलात् ।
रागोऽन्तर्मानसं तस्याः प्रविविक्षुरिवैक्ष्यत ॥ १६६॥
लक्ष्म्यादिललनाकीर्तिमावत्यैव विनिर्मिते ।
करयोः कङ्कणे मुक्तामये तस्या विरेजतुः ॥ १६७ ॥
तस्याश्चकाशे जघने रसनागुणनिस्वनः ।
तुमुलः कामसैन्यस्य निवासानिव गृह्णतः ॥ १६८ ॥
झङ्कारमुखरौ तस्याः पादयोर्मणिनूपुरौ ।
विभ्राजेते स्म सर्वाङ्गालक्ष्मीवैतालिकाविव ॥ १६९ ॥
इति प्रसाधिका साभूदतिमात्रमनोहरा ।
कामं रम्या हि वासन्ती वसन्तश्रीवतंसिता ॥ १७० ॥
अथ बन्धुपुरंध्रीणामुलूलुध्वनिबन्धुरे ।
स्फुरत्यम्भोधिगम्भीरे विश्वतस्तूर्यनिस्वने ॥ १७१ ॥
उन्मीलत्यमितो वैतालिककोलाहले मुहुः ।
वेत्रिणां बद्धतुमुले मूर्च्छत्युत्सारणाध्वनौ ॥ १७२ ॥
किङ्किणीकाणनिर्वाणपुष्पोच्चूलालिनिक्वणम् ।
तपनीयपताकान्तर्मूर्च्र्छन्मार्तण्डदीधिति ॥ १७३ ।।