पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१३२
काव्यमाला।
पाञ्चाली नयनौपम्यमहमेव लभे परम् ।
इत्यवश्यमिदं हर्षादुन्मिमील महोत्पलम् ॥ १२३ ॥
पाञ्चालीस्पृहयालूनां भूभुजामथ मन्मथः ।
मुमोच मार्गणश्रेणिमीर्ष्ययेव समं हृदि ।। १२४ ॥
अङ्गेष्वनल्पसंकल्पसूतिसंतापशान्तये ।
रचयांचक्रिरे केचिज्जाह्नवीमसरोरुहाम् ।। १२५ ॥
द्रौपदीवदनाम्भोजप्रतिस्पर्धितया स्फुटम् ।
अभूत्केषांचिदानन्दन्निन्दुरप्यास्पदं रुषः ॥ १२६ ॥
प्रेङ्खोलयद्भिरत्युष्णनिश्वासपवनोर्मिभिः ।
शातितः शीतिमा कैश्चित्कदलीदलमारुतैः ॥ १२७ ॥
भ्रातर्जानीहि जातेयमस्मदुत्सङ्गसङ्गिनी।
सुहृदं केचिदित्यूचुः कार्मुकाभ्यासकर्मठाः ॥ १२८ ॥
अङ्गारीयति हारोऽयं हिमांशुस्तपनीयति ।
तमस्तोमीयति ज्योत्स्ना स्वगुप्तीयति()पङ्कजम् ॥ १२९ ॥
नाडिका यामकल्पाद्य यामोऽभूद्यामिनीसमः।
यामिनीवर्षदेश्या च धिक्केयं विपरीतता ।। १३० ॥
द्वीपान्तरेऽपि कस्याश्चित्स्यंवरमहोत्सवम् ।
रविरालोकयत्यद्य नाभ्युदेति किमन्यथा ॥ १३१ ॥
इति द्रुपदकन्याङ्गसंगमोत्सवमिच्छताम् ।
बभूव सर्वभूपानां कोटियामेव यामिनी ॥ १३२ ।।
(चतुर्भिः कलापकम् ॥
अन्तर्विचिन्त्य पाण्डस्तु दोर्दण्डानात्मजन्मनाम् ।
अपास्तचिन्तासंतापः सुखी सुष्वाप निर्भरम् ।। १३३ ॥
कुरुवंशाङ्कुराणां तद्विलोक्य ललितं वपुः ।
परं पाञ्चालभूपालः स्वं निनिन्द मुहुर्मुहुः ॥ १३४ ।।
इत्थं पृथ्वीभुजां नानाविकल्पाचान्तचेतसाम् ।
कृच्छ्रलब्धाल्पनिद्राणां विरराम विभावरी ।। १३५ ॥