पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।
विश्वकर्मापि निर्माणनैपुण्यमवलोकयन् ।
मन्ये तच्छिल्पिनामैच्छदन्तेवासित्वमात्मनः ॥ ११०॥
नानारत्नमयं तेषामेकैकमपि पश्यतः ।
द्रुपदे स्वर्गलुण्टाकवासना कस्य नाभवत् ।। १११ ॥
तानालोक्यात्मनः संपल्लोपाशङ्कां पिशाचकी(१)।
भूमौ लुठन् रसत्युच्चैरद्यापि ध्रुवमर्णवः ॥ ११२ ॥
सुदुस्तरतपःक्लेशप्राप्तं(तान्) नूनमवेक्ष्य तान् ।
अनिन्द्यत गतानन्दैः सुरैः स्वर्वासवैशसम् ॥ ११३ ॥
स्तम्भमुत्तम्भयामास हैमं मध्येस्वयंवरम् ।
पञ्चालभूपतिर्जम्बूद्वीपान्तर्मेरुविभ्रमम् ॥ ११४ ।।
रेजुर्भमन्ति चत्वारि वामं चत्वारि दक्षिणम् ।
रत्नचक्राणि नक्षत्रचक्राणीवास्य मूर्धनि ॥ ११५ ।।
भाति स्म रत्नपाञ्चाली मूर्ध्नि तेषामवाङ्मुखी ।
तद्भ्रमोग्रजवालोककौतुकेनेव निश्चला || ११६ ॥
अधःस्तम्भस्य दम्भोलिसारैरिव विनिर्मितम् ।
राजामुश्चक्रमायातं देवताधिष्ठितं धनुः ॥ ११७॥
अथ मौहूर्तिकादिष्टे दृष्टे पूर्णशुभग्रहैः ।
उच्चस्थैश्चास्थिते लग्ने प्रीतिनिर्मग्नमानसः॥ ११८ ॥
पञ्चालपृथिवीपालः सायमर्वाचि वासरे
प्रातराहूय तान्दूतान्प्राहिणोत्प्रतिपार्थिवम् ॥ ११९ ॥ (युग्मम्)
तदा रविरलंकर्तुमिव द्रुपदनन्दिनीम् ।
रत्नसारमुपादातुमाशु रत्नाकरेऽविशत् ॥ १२० ॥
वयं दवीयोवास्तव्याः स्वयंवरकुतूहलम् ।
न द्रक्ष्याम इतीवाशास्तमःश्यामास्यतां दधुः॥ १२१ ।।
कला काप्यस्ति भूपानां द्रौपदीप्राप्तिकारणम् ।
इति ज्ञातुमना मन्ये कलानां निधिरुद्ययौ ॥ १२२ ॥