पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१३०
काव्यमाला ।
नीलाश्मकुट्टिमे तस्मिन्श्वेतसोपानभूर्बभौ ।
कालिन्दीशङ्कयोद्वीचिरारोहन्तीव जाह्नवी ॥ ९७ ॥
स्तम्भाः स्वर्णमयास्तस्मिन्नश्मगर्भमयक्षितौ ।
वातोत्थयमुनापद्मपांशुदण्डनिभा बभुः ॥ ९८॥
तस्मिन्स्वयंवरालोककौतुकास्त्रिदिवाङ्गनाः।
प्रतिस्तम्भमुपारूढाः शालभञ्जीनिभा बभुः ॥ ९९ ॥
नीलवेदीपरिक्षिप्ता क्वचिदिन्दूपलक्षितिः ।
वनीवलयितक्षीरनीरधिश्रियमश्नुते ॥ १० ॥
तस्मिन्हरिन्मणिस्तम्भाः पद्मरागप्रभाञ्चिताः ।
लीनां नीलत्विषः क्वापि तन्वते पीतवाससः ॥ १०१ ॥
क्वचित्कार्तस्वरस्तम्भास्तस्मिन्नीलाश्मकन्दलैः ।
मेरुं विडम्बयामासुर्जम्बूराजिविराजितम् ॥ १०२ ॥
क्वचिन्नीलमणिक्षोणी परितोऽर्काश्मवेदिका ।
दध्रेऽम्भोधितटाश्लिष्टनिर्वृष्टाम्भोदविभ्रमम् ॥ १०३ ॥
कर्केतनार्कमाणिक्यवज्रवैडूर्यकांन्तिमिः ।
तस्य च्छन्नः करामर्शाद्वारदेशोऽध्यगम्यत ॥ १०४ ॥
नीलाश्मद्वारशाखासु श्रेणिरुत्पलकोमला।
तत्र शाश्वतिकं दध्रे कदलीस्तम्भविभ्रमम् ।। १०५ ॥
संध्याम्भोधिसनाभीनि तत्प्रदेशेष्वनेकशः।
शिल्पिनः पञ्चरूपाणि वितानानि वितेनिरे ॥ १०६ ॥
तस्मिन्मुक्तावचूलेषु स्थानस्थानावलम्बिषु ।
पेतुर्मधुव्रतवाताः पुष्पस्तबकशङ्किनः ॥ १०७ ।।
तस्मिन्भान्ति स्म संक्रान्तकान्तप्रालम्बमौक्तिकाः ।
पुष्पोपहारहारिण्यः सदैव मणिभूमयः ।। १०८ ।।
कुर्वतः सर्वतः स्वर्गिविमानश्रीविमाननम् ।
नृपस्तत्परितो मञ्चानुच्चकैर्निरमापयत् ॥ १०९ ॥