पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१२६
काव्यमाला।
असौ कुन्त्या च माद्र्या च याप्ययानाधिरूढया।
बभौ गङ्गामृडानीभ्यां चन्द्रचूड इवाञ्चितः ॥ ४६॥
धृतराष्ट्रादिभिः सर्वैः स्वस्वशुद्धान्तशालिभिः ।
स बभौ वल्लभाबद्धसङ्गैर्भृङ्गैरिव द्रुमः ॥ १७ ॥
सैन्धवोद्भूतधूलीभिः पिदधे धर्मदीधितिः ।
तद्यशश्चन्द्रमाः कामं जगत्यामद्युतत्पुनः ॥ ४८॥
नेत्राः सेन्दीवरा वक्त्रैः सेन्दवोऽङ्गैः सवीरुधः ।
तद्दिदृक्षुमृगाक्षीणां विरेजुः पुरवीथयः ॥ १९॥
अभिरामगुणग्रामगरीयान्नगरश्रियम् ।
अवेक्ष्यमाणः स पाप प्रतोलीमतुलद्युतिः ॥ ५० ॥
अन्योन्यजङ्घासंघट्टसीदन्निखिलसादिका ।
दूरत्रस्तजनोर्जस्विगर्जत्तुङ्गमतङ्गजा ॥ ५१ ॥
जाह्नवीव तुषाराद्रिसद्मपद्मह्रदोदरात् ।
निर्जगाम चमूः पाण्डोः शनकैः पुरगोपुरात् ॥५२॥ (यु
कुरूणां प्रवरे छायाप्रवालफलकुड्मलैः ।
प्रथयामासुरातिथ्यं जाह्नवीतीरभूरुहः ॥ ५३ ।।
सैनिकानां नगोत्तुङ्गवीचिसंचारमन्थरैः ।
स्वेदाम्बुततिराचेमे गाङ्गेयैः पवनोर्मिभिः ॥ ५४ ॥
हैयङ्गवीनगोमुख्यैर्ग्रामीणोपायनैरसौ ।
मुमुदे मेदिनीपालः कालः प्रत्यर्थिनां पथि ।। ५५ ॥
रथाश्वसादिमिः सीमसामन्तानभ्युपस्थितान् ।
स पश्यन्नन्दयामास प्रसादस्निग्धया दृशा॥ ५६ ॥
मनोहरसरःशैलकेलिदुर्ललिता क्रमात् ।
कौरवी दूरमध्वानमतिचक्राम सा चमूः ।। ५७ ॥
काम्पिल्यस्याथ सीमानमाससाद कुरूद्वहः ।
प्रमोदस्तु विवेशान्तरुत्फुल्लजनसूचितः ।। ५८ ।।