पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।
१२३
हारयष्टिमहीपृष्ठे तस्यैव विशदं यशः ।
पुञ्जयन्तः क्षितीशास्तं प्रणम्योपाविशन्पुरः॥ ८॥
मणिकोटीरसंक्रान्तमूर्तिरार्तैकबान्धवः ।
उह्यमान इव भ्रेजे शिरोभिः सोऽवनीश्वरैः ॥९॥
स्त्यानीभूय गतैर्मूर्तिमद्भिः कामरसैरिव ।
निर्मिताः परतो वारनार्यस्तं पर्यवृण्वत ॥ १०॥
गाङ्गेयधृतराष्ट्रादिगुरुवर्गोऽपि गौरवात् ।
अलंचक्रे तदास्थानमानन्दभरमेदुरः ॥ ११ ।।
यथास्थानमथासीने सामन्तामात्यमण्डले ।
स्तुवत्सु तद्यशो विश्वश्रोत्रानन्दिषु वन्दिषु ॥ १२ ॥
पुष्पावचूलरोलम्बकदम्बध्वनिडम्बरैः ।
मुहुर्निह्रूयमानासु गाथकीकलगीतिषु ॥ १३ ॥
नानासूक्तीः कवीन्द्रेषु रसभङ्गतरङ्गिताः ।
उद्विरत्सु जनश्रोत्रपटुपीयूषवर्षिणीः ॥ १४ ॥
विशारदेषु पुरतो भरतादिमहीभुजाम् ।
प्रथयत्सु कथास्तथ्या नितान्तमघमर्षणीः ॥ १५॥
अभ्येत्य भूमिन्यस्तैकजानुरानभ्य भूपतिम् ।
मूर्धन्यञ्जलिमाधाय प्रतीहारो व्यजिज्ञपत् ॥ १६ ॥
देव सेवककल्पद्रो द्रुपदस्य महीपतेः ।
आकारविदिताकूतो दूतस्ते द्वारि वर्तते ॥ १७ ॥
जाह्नवेयधृतराष्ट्रविदुराणामथाशयम् ।
ज्ञात्वोर्वीपतिरादिक्षत् तत्प्रवेशाय तं ध्रुवा ॥ १८ ॥
आक्षिप्तचक्षुरालानलालितैः केलिलोलुपैः ।
सविभ्रमाभ्रमातङ्गबन्धुभिर्गन्धसिन्धुरैः ॥ १९ ॥
वनायुदेश्यैर्देवाश्वदेशीयैर्मन्दरोदरे ।
भृशमोजस्विभिः क्लृप्तनेत्ररङ्गसुरङ्गमैः ॥ २० ॥