पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१२२
काव्यमाला।
अथोत्क्षिप्य भुजं द्रोणः पाण्डवान्कौरवानपि ।
सिंहपोतानिवान्योन्यं युध्यमानान्न्यवारयत् ॥ ४९० ॥
भुजोत्कर्षाच्च बीभत्सोः कुमाराणां च मत्सरात् ।
आनन्दश्च विषादश्च समं पाण्डोरभूद्वयम् ।। ४९१ ॥
धृतराष्ट्रकृपद्रोणगाङ्गेयादिभिरन्वितः ।
विसृज्य संसदं पाण्डुर्निजमन्दिरमासदत् ।। ४९२ ॥
कृतकर्णस्तुतिः कश्चित्कश्चित्पार्थस्तवोल्वणः ।
कश्चिदुर्योधनस्तोता जनः स्वं स्वं गृहं ययौ ॥ १९३ ॥
इतरेतररन्ध्रवीक्षिणस्ते विनयाच्छादितमत्सराः कुमाराः।
सकलासु कलासु केलियोग्या मिलिता एव वितन्वते स्म नित्यम्॥
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये भीमर्योधनादिजन्मकुमारकलारोपणास्त्रदर्शनवर्णनो नाम तृतीयः सर्गः ॥३॥
चतुर्थः सर्गः।
अथान्यदावदातश्रीः श्रीमान्पीनांसकुट्टिमः ।
खण्डितारातिदोष्काण्डः पाण्डुः संसदमासदत् ॥ १॥
हिरण्मयमयं भेजे शारदाम्भोधरद्युतिः ।
भद्रासनं शशिकान्तसुमेरुशिखरोपमम् ॥ २ ॥
दधार रत्नकेयूरे स(ख)प्रभारुणिताम्बरे ।
वमभ्यामिव बाहुभ्यां प्रतापं मूर्ततां गतम् ॥ ३ ॥
अरातिकीर्तिसर्वखमावर्त्यैव विनिर्मितम् ।
स बभारोज्वलं हारमुरःस्थलविलम्बिनम् ॥ ४॥
शिरस्युवाह पीतानां विपक्षमहसामिव ।
अमान्तमन्तः संदोहं स रत्नमुकुटच्छलात् ।। ५ ॥
कपोलदर्पणे द्रष्टुमात्मीयकमनीयताम् ।
विकर्तनाविवायातौ स दधौ स्वर्णकुण्डले ॥ ६ ॥
जयप्रशस्तिमेतस्य चामरग्राहिणीजनाः ।
कङ्कणौधरणत्कारकैतवेन वितेनिरे ॥ ७॥