पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् । १२१

असौ राजकुले क्वापि लब्धजन्मा न संशयः ।
इति कुन्दोज्ज्वलैरस्य गुणैरनुमितं मया ॥ ४७७ ॥
असौ मद्वंशजत्वेन यदधिक्षिप्यते मुहुः ।
काकोलकुलजत्वेऽपि कुत्सनं कोकिलस्य तत् ।। ४७८ ॥
इमामाकर्ण्य कर्णस्य कथामतिरथेर्मुखात् ।
दधुः सभासदः सर्वे विस्मयस्तिमितं मनः ।। ४७९ ॥
कुन्तीति चिन्तयामास दिष्ट्या जीवति मे सुतः ।
नेत्रयोश्चिररात्राय ममाभूत्पारणाव(वि)धिः ।। ४८० ॥
सैवेयं यन्मणिस्तोममण्डिता कुण्डलद्वयी ।
अहमेकैव धन्यास्मि यस्याः कर्णार्जुनौ सुतौ ।। ४८१ ॥
कोऽन्यः स्पर्धेत पार्थेन यो हि न स्यात्सहोदरः ।
अमृतेनामृताभीशुरेव स्पर्धितुमर्हति ॥ ४८२ ॥
कर्णो वः सोदरो बन्धुरिति संबन्धमादितः ।
समये धर्मजादीनां ज्ञापयिष्यामि जातुचित् ॥ ४८३ ।।
एवं विकल्पकल्लोलैः कुन्त्यामानान्तचेतसि ।
सभायां भुजमुक्षिप्य क्रुधा दुर्योधनोऽभ्यधात् ।। ४८४ ॥
अभिषिक्तोऽयमङ्गेषु यादृशस्तादृशो मया ।
नाभीष्टो यस्य कस्यापि स नामयतु कार्मुकम् ॥ ४८५ ॥
तामाकर्ण्य गिरं पाण्डुसूनुपु ज्वलितात्मसु ।
भयोद्धान्तस्य लोकस्य जज्ञे कोलाहलो महान् ॥ ४८६ ॥
पाण्डुद्रोणमभाषिष्ट दृष्ट्वा तदसमञ्जसम् ।
प्रचण्डपुत्रभाण्डानामकाले कलहः किमु ॥ ४८७ ॥
एषामस्माभिरासूत्रि कलामात्रपरीक्षणम् ।
कुमाराणां विरोधोऽयं तदाचार्य निवार्यताम् ॥ ४८८ ॥
मिथो विरोधं बन्धूनामवेक्षितुमिवाक्षमः ।
तदानीं च पतिर्भासामस्तगह्वरमाविशत् ।। ४८९ ॥