पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

तत्त्वान्तरं किमप्येतत्कर्ण इत्युदितं भुवि ।
दिव्याङ्गलक्षणं सूती न सूते सुतमीदृशम् ॥ ४६४ ॥
अथातिरथिराह स्म साधु साधु सुयोधन ।
असौ मे नाङ्गजः सूनुर्यथा प्राप्तस्तथा शृणु ॥ ४६५ ॥
त्रिःस्रोतःस्रोतसि पुरा प्रभाते गतवानहम् ।
अपश्यं रत्नमञ्जूषां पुण्यैर्लक्ष्मीं निजामिव ॥ ४६६ ॥
गृहे नीत्वा पुरः पत्न्यास्तामुद्धाट्य तदन्तरे ।
सकुण्डलं स्फुरत्कान्तिं वचनागोचरश्रियम् ॥ ४६७ ॥
राजकुञ्जरदर्पोष्मध्वंससंभाविताकृतिम् ।
एकमालोकयं बालं सिंहार्भकमिवोद्भटम् ॥ ४६८ ॥
तमालोक्य कृतालोकं पत्नीं राधामथाभ्यधाम् ।
अनपत्या प्रिये संप्रत्यनेन भव पुत्रिणी ।। ४६९ ॥
इत्युक्ता सापि मामाह प्राणेश धुसृणारुणे ।
जाते प्राच्या दिशो चक्रे स्वामोऽद्य ददृशे मया ॥ ४७० ॥
जानामि भानुमानेत्य सप्रसादं जगाद माम् ।
वत्से संपत्स्यते तेऽद्य शौण्डीरतिलकः सुतः ॥ ४७१ ॥
तं दृष्ट्वा दधती हर्षमुज्जागरमजागरम् ।
तदैव च त्वयानेन दिष्टया पुत्रेण वर्धिता ॥ ४७२ ॥
इत्याख्याते शुभे स्वप्ने प्रियायाः पुलकस्पृहः ।
मञ्जूषातः समाकृष्य तमङ्के बालमक्षिपम् ॥ ४७३ ॥
कर्णस्याधः करं कृत्वा सुतः प्राप्तोऽयमित्यसौ ।
प्रापितः कर्ण इत्याख्यां तनयः सुदिने मया ॥ ४७४ ॥
स्वप्ने रविवितीर्णत्वादपरं रविभूरिति ।
अस्य यद्भागधेयस्य नामधेयमजायत ॥ ४७५ ॥
भवन्ति स्म गुणा बाल्यादस्मिन्नस्मत्कुलातिगाः ।
पङ्के पङ्केरुहो वृद्धिः सौरभ तु स्वतोभवम् ॥ ४७६ ॥