पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

विषमैव गतिः कामं समरस्येति कातरम् ।
पाण्डोर्वदनमालोक्य राधेयमवदत्कृपः ॥ ४३८ ॥
कुन्तीकुक्षिसरोहंसः कुरुवंशैकमौक्तिकम् ।
पाण्डुहेमाद्रिकल्पद्रुर्बीभत्सुर्विदितोऽस्ति नः ॥ ४३९ ॥
तत्त्वमप्यात्मनो ब्रूहि मातरं पितरं कुलम् ।
ताम्यतस्तव चेद्बाहू रणाय कपिकेतुना ॥ ४४०॥
तां कृपस्य कृपाणाग्रशितामाकर्ण्य भारतीम् ।
झटित्युत्थाय संरम्भादभाषत सुयोधनः ।। ४४१ ॥
किं कुलेन पितृभ्यां वा गौरवं हि गुणैर्नृणाम् ।
अधिरोहति मूर्धानमरविन्दं किमन्वयम् ॥ ४४२ ॥
रणः शौण्डीरिमप्रेक्ष्यः कुलं न कापि प्रेक्ष्यते ।
शौण्डीरस्तद्बलात्कर्णः फाल्गुनं योधयिष्यति ॥ ४४३ ॥
किं नाम सोऽपि शौण्डीरः क्षमते यः परानपि ।
न नाम सहते सिंहो गर्जाभिः स्फूर्जतो घनान् ॥ ४४४ ॥
अथ जल्पवता राज्ञा विधत्ते युद्धमर्जुनः ।
राज्ये कर्णस्तदङ्गानामभिषिक्तो मयाधुना ॥ ४४५ ॥
इत्युदीर्य कृपाचार्यप्रभृतीन्धृतराष्ट्रसूः ।
कर्णराज्याभिषेकाय तत्कालमुपचक्रमे ॥ ४४६ ॥
पुरोहितमथाहूय कर्णं स्वर्णनासनस्थितम् ।
स्वभुक्ते सोऽङ्गसाम्राज्येऽभ्यषिञ्चत्तीर्थवारिभिः ॥ ४४७ ॥
निष्कलङ्कमृगाङ्काभं तस्य च्छत्रमधार्यत ।
अर्जितं निजदोर्दण्डैर्यशः स्वमिव पिण्डितम् ।। ४४८॥
प्रकीर्णकानि कर्णस्य धूयन्ते स्म वधूजनैः ।
अभिषेक्तुं तमायान्त्यो गङ्गोर्मय इवाम्बरात् ॥ ४४९ ।।
चिरं जयाङ्गराजेति शब्दोद्गारपुरःसरम् ।
तस्य भोगावलीं पेठुर्बन्दिनो विश्ववन्दिनः ॥ ४५० ॥