पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

आवव्रे पञ्चभिर्द्रोणः पाण्डवैः सायुधैस्तदा ।
मूर्तिमान्परमात्मेव महाभूतैः शरीरिमिः ॥ ४१२ ॥
अश्वत्थामान्विताः स्थामवन्धुरा बान्धवाः शतम् ।
तारका इव शीतांशुं परिचक्रुः सुयोधनम् ॥ ४१३ ॥
अमन्दरमदक्षुब्धक्षुभ्यदम्भोधिभैरवम् ।
कातरीकृतशौण्डीरं सिंहनादं समावहत् ॥ ४१४ ॥
भुजास्फोटानुसारेण प्रक्षिप्तनयनाम्नुजैः ।
विस्मयस्तिमितैस्त्रासलोलैश्यालोकितो जनैः ॥ ४१५॥
भीमाकृतिरपि प्रांशुः सासितूणीरकार्मुकः ।
काञ्चनं कवचं बिभ्रत्सुमेरुरिव जङ्गमः ॥ ४१६ ।।
बीभत्सुं प्रति बीभत्से क्षिपन्गुञ्जारुणे दृशौ ।
रङ्गमध्यमथाध्यास्त कर्णः शौर्यमहार्णवः ॥ ४१७ ॥
(चतुर्भिः कलापकम्)
ततः कर्णः कृपाचार्यं द्रोणं च द्रुहिणोपमम् ।
ननाम नामितारातिर्नातिप्रान्तराशयः ॥ ४१८॥
ततः सगर्वं सोऽवोचत्पार्थ मानेन कर्मणा ।
मंस्थाः कर्मठमात्मानं मामालोकय संप्रति ।। ४१९॥
अथ पार्थो यथा यद्यत्कर्म निर्मितवान्पुरा ।
कर्णः सातिशयं तत्र प्रथयामासिवांस्तथा ॥ ४२० ॥
ततः सहर्षमुत्थाय धृतराष्ट्रात्मजाग्रणीः ।
कर्णं निबिडमालिङ्ग्य प्रणयादित्यवोचत ।। ४२१ ॥
कर्ण त्वमेकवीरोऽसि त्वं त्रिलोकीविभूषणम् ।
त्वं धनुर्वेदविद्यायाः परां सीमानमीयिवान् ॥ ४२२ ।।
त्वमेव वैरिदोर्दर्पसंपदां पश्यतोहरः ।
त्वमेव कीर्तिनिर्यासडिण्डिमः सर्वधन्विनाम् ।। ४२३ ॥
इदं राज्यमिमे प्राणा इमाः कुरुकुलस्त्रियः ।
सर्वं त्वदीयमेवैतद्ब्रूहि येन प्रयोजनम् ॥ ४२४ ॥