पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

आनद्धोभयतूणीरः करोपहितकार्मुकः ।
बद्धगोधाङ्गुलित्राणः कवचच्छन्नविग्रहः ॥ ३८६ ॥
ततो विवेश बीभत्सुर्गिरान्तःसदसं गुरोः ।
मध्येसुरपुरं जन्तुर्यत्नेनेव सुरद्विपः ।। ३८७ ॥ (युग्मम् )
त्रिजगत्येकवीरोऽयमयमस्त्रविदां वरः ।
कुरुगोत्रप्रदीपोऽयमयं भुवनरक्षिता ॥ ३८८ ॥
तेजसामेकधामायमयं न्यायनिकेतनम् ।
कीर्तीनां कुलवेश्मायमयमुत्साहमन्दिरम् ॥ ३८९ ॥
इत्यानन्दाजनैरुक्ताः शृण्वत्याः सर्वतो गिरः ।
प्रश्रयेण समं कुन्त्याः पेतुः प्रीत्याश्रुविषुषः ॥ ३९० ॥
धृतराष्ट्रस्य पाण्डोश्च पुलकच्छद्मना बहिः ।
फाल्गुनं पश्यतोर्जाताः शुभस्नेहाङ्कुरा इव ॥ ३९१ ।।
दिदृक्षयेव पार्थस्य लोकवत्रेषु राकया ।
एत्यामावस्यया तस्थे गान्धारीवदने पुनः ॥ ३९२ ॥
संसज्जनैः स्थितैस्तैस्तैरर्जुनस्तुतिघट्टनैः ।
दिदीपे कोपसप्तार्चिः सुयोधनशमीतरौ ॥ ३९३ ॥
कर्णस्तु सर्वशास्त्राब्धिकर्णधारभुजोर्जितः ।
सार्जुनं तं जनं हन्तुमियेष प्रस्तुतस्तुतिम् ॥ ३९४ ॥
कलितोद्दण्डकोदण्डमालीढस्थानमास्थितः ।
किरीटी ददृशे साक्षाद्धनुर्वेद इवाङ्गवान् ॥ ३९५ ॥
जनस्याभून्मुदा तूर्यनिनादैरभिनन्दितः ।
ब्रह्माण्डमाण्डभेदीव कलः कोलाहलो महान् ॥ ३९६ ॥
उपजग्मुषि विश्रान्तिमथ तस्मिन्कथंचन ।
अस्त्रकौशलमात्मीयं दर्शयामास फाल्गुनः ।। ३९७ ॥
लक्ष्ये चले स्थिरे स्थूले लघीयसि च लाघवम् ।
के नाम विस्मयं नापुः पश्यन्तः सव्यसाचिनम् ॥ ३९८ ॥