पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

प्रभाते नूनं स्थानभङ्गो भविष्यति, यतो यवसेन्धनक्षयः सञ्जातः, तथा सर्वोऽपिजनःप्रहारैर्जर्जरितदेहः संवृत्तो योद्धुमक्षमः, प्रचुरो मृतश्च । तदेवं ज्ञात्वाऽत्र काले यदुचितं भवति तद्विधेयम्'-इति। तच्छुत्वा कौलिकोऽप्यचिन्तयत्-'स्थानभङ्गे जाते ममाड- नया सह वियोगो भविष्यति, तस्माद्गरुडमारुह्य सायुधमात्मान- माकाशे दर्शयामि, कदाचिन्मां वासुदेवं मन्यमानास्ते साशङ्का राज्ञो योद्धृभिर्हन्यन्ते। उक्तञ्च निर्विपेणापि सर्पण कर्त्तव्या महती फटा । विपं भवतु मा वाऽस्तु फटाऽटोपो भयङ्करः ।। २२५ ॥ अथ यदि मम स्थानार्थमुद्यतस्य मृत्युभविष्यति तदपि सुन्दरम् । उक्तञ्च- गवामर्थे ब्राह्मणार्थे स्वाम्यर्थे स्त्रीकृतेऽथवा। स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातना. ।। २२६ ।। चन्द्रे मण्डलसंस्थे विगृह्यते राहुणा दिनाधीशः । शरणागतेन सार्ध विपदपि तेजस्विनां श्लाघ्या ।। २२७ ।। जानन् । नूनम् अवश्यं । स्थानभङ्ग =दुर्गनाश । दुर्गे शत्रूणामधिकारो भविष्य- तीति यावत् । यवसेन्धनक्षय. धासकाष्टादिसकलोपकरणक्षय । जन =सैनिक- लोक । जर्जरितदेह =विशीर्णशरीर । संवृत्त =जात । प्रचुर -भूयास्तु। मृत = मृत एव । अनया-राजकन्यया। ते शत्रव । राज्ञ =अस्मच्छ्शुरस्य राज्ञ । योद्धभि' भट। निर्विपेण-विषशून्येनापि । सर्पण-महती नितरं भीतिदा। फटा-फणा- संनिवेशाटोप। विषाऽभावेऽपि फटाडम्वरेणैव लोकाना भयजननं भविष्यतीत्याशय। फणे ति 'मा भूया'दिति च पाठान्तरम् ।। २२५ ॥ मम-कौलिकस्य। स्था- नार्थ-दुर्गरक्षणार्थम्। उद्यतस्य युद्धं कुर्वाणस्य । तदपि मरणमपि । गवामर्थे-गवा रक्षणार्थं । ब्राह्मणार्थे-द्विजरक्षार्थम् । स्वाम्यर्थे प्रभुकार्य- सिद्धये । स्त्रीकृत-स्त्रीरत्नलाभार्थच्च। तस्य-सनातना -अक्षया । लोका ब्रह्मलोका- दयो भवन्तीत्यर्थः ॥ २२६॥ ६