पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CO

  • पञ्चतन्त्रम् *

[१ मित्र- भव, प्रसूति नारायणो भजते, तत्सिद्धाःसर्वेऽस्माकंमनोरथा। अधुना जामातृप्रभावेण सकलामपि वसुमतीं वश्यां करिष्यामि ।' एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादाव्यतिक्रममक- रोत् । ते च तं मर्यादाव्यतिक्रमेण वर्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः। अत्राऽन्तरे स राजा देवीमुखेन तां दुहितरमुवाच-पुत्रि! त्वयि दुहितरि वर्तमानायां, नारायणे भगवति जामातरि स्थिते, तत्किमेवं युज्यते यत्सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति ? । तत्संबोध्योऽद्य त्वया निजभर्ता, यथा मम शत्रून्व्यापादयति ।' ततस्तया स कौलिको रात्रौ सविनयमभिहितः-भगवन् ! त्वयि जामातरि स्थिते मम तातो यच्छत्रुभि. परिभूयते तन्न युक्तम्, तत्प्रसादं कृत्वा सर्वांस्ताञ्शत्रून्व्यापादय । कौलिक आह-सुभगे ! कियन्मात्रास्त्वेते तव पितुः शत्रवः ?, तद्विश्वस्ता क्षणेनापि सुदर्शनचक्रेण सर्वास्तिलशः खण्डयिष्यामि । अथ गच्छता कालेन सर्वदेशं शत्रुभिरुद्वास्य स राजा प्राकार- शेषः कृतः । तथापि वासुदेवरूपधरं कौलिकमजानन् राजा नित्यमेव विशेषतः कर्पूरागुरुकस्तूरिकादिपरिमलविशेषान्नाना. प्रकारवस्त्रपुष्पभक्ष्यपेयांश्च प्रेषयन्दुहितमुखेन तमूचे-भगवन् ! पूरप्लावितमिव अमृतनिर्झरसिक्तमिव । यत्प्रसूति-ययोरपत्यम्। पुत्रीमिति यावत् । भजते-सेवते । जामातृप्रभावेण श्रीमन्नारायणप्रभावेण । वसुमती-पृथ्वीम् । सीमाधिपै सीमान्तराजै । मर्यादाव्यतिक्रम-मर्यादोल्लवनेन सन्धिभङ्गकलहम् । समेत्य=मिलित्वा, विग्रहं युद्धम् । देवीमुखेन=राजमहिषीद्वारा । स्थिते वर्तमाने सति। 'मया सह सर्वे पार्थिवा विग्रहं कुर्वन्तीत्येवं कि युज्यते ?=न युज्यते इत्यर्थः । सम्बोध्य प्रार्थनीय । प्रसाद-कृपाम् । व्यापादय-विनाशय । कियन्मात्रा =कियन्त ?, अत्यल्पा एवेति यावत् । गच्छता कालेन-अल्पैरेव दिनै ।उद्वास्य-पीडयित्वा, निष्कास्य, स्वाधिकारे कृत्वा वा । प्राकारशेष =एकदुर्गमात्राश्रय । अवरुद्ध. सर्वत इति यावत् । कौलिक- मजानन्- कौलिकोऽयं नारायणरूपेण मत्कन्यामुपभुते' इत्येवं तत्त्वतः कौलिकम- s'