पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६

  • पञ्चतन्त्रम् *

[१ मित्र- रथकारोऽप्येवं सकामं तद्वचनमाकर्ण्य सस्मितमिदमाह 'वयस्य यद्येवं तर्हि दिष्टया सिद्धं नः प्रयोजनं, तदद्यैवतया सह समागमः क्रियताम्' इति । कौलिक आह-वयस्य ! यत्र कन्याऽन्तः-पुरे वायुं मुक्त्वा नाऽन्यस्य प्रवेशोऽस्ति, तत्र रक्षापुरुपाधिष्ठिते कथं मम तया सह समागमः ? । तत्कि मामसत्यवचनेन विडम्बयसि ? । रथकार आह-'मित्र ! पश्य मे बुद्धिबलम् ।' एवमभिधाय तत्क्षणाकीलकसञ्चारिणं वैनतेयं वाहुयुगलं वरुणवृक्षदारुणा शङ्ख-चक्र-गदा-पद्मान्वितं सकिरीटकौस्तुभमघटयत् । ततस्तस्मिन्कौलिकं समारोप्य विष्णुचिह्नितं कृत्वा कील- सञ्चरणविज्ञानं च दर्शयित्वाप्रोवाच-'वयस्य ! अनेन विष्णुरूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनी सप्तभूमिक प्रासादप्रान्तगतां मुग्धस्वभावां-त्वां वासुदेवं मन्यमानां-स्वकी- यमिथ्यावक्रोक्तिभी रअयित्वा वात्स्यायनोक्तविधिना भज ।' कौलिकोऽपि तदाकर्ण्य तथारूपस्तत्र गत्वा तामाह-राज- नोचितम् । सज्जनाना स्वच्छाना च दाहकताया अनुचितत्वादिति भाव ॥२२१॥ सकामं सामिलाप, कामविकलं वा । दिष्टया भाग्येन। दिष्ट्येति हर्पे। न = अस्माकम् । प्रयोजनम् अभीष्टम् । विडम्वयसि वञ्चयसि । कील(क) सञ्चारिण= कुञ्चिकाभ्रमणसञ्चरिष्णुम् । ('चावीसे चलनेवाला' ) । वैतेनय गरुडं । वरुण = वृक्षभेद । 'वायुजवृक्षे' ति केचित् पठन्ति । सकिरीटं-मुकुटसहित। कौस्तुभं= रत्नविशेषम् । सकिरीटेति वाहुयुगलविशेषणम्। अघटयत्-चकार । तस्मिन् यनगरुडे। कीलकस्य-कुञ्चिकाया । यत्सञ्चरणं भ्रामण । तस्य विज्ञान कौशलं । दर्शयित्वा-शिक्षयित्वा । अनेन कृत्रिमेण, सप्तभूमिकस्य-सप्त- तलस्य ( सतमंजिला' ) । प्रासादस्य हर्म्यस्य ( महल के )। प्रान्ते-उपरिभागे, (छतपर' । गता=स्थिताम् । मुग्धस्वभावा-वालतया सरलस्वभावाम् । मुग्धाम् । अज्ञातकामोपभोगसुखाम्। वासुदेवं-कृष्ण । रजयित्वा-वीकृत्य । वात्स्यायनोक्त- विधिना कामशास्त्रोक्तेनोपायेन । भज-उपभुत। तदाकर्ण्य-तद्वचनं श्रुत्वा । तथारूप =विष्णुरुपो भूत्वा । तत्र-राजप्रासादे