पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् **

७५. रथकार आह–'भो मित्र ! यद्यप्यसाध्यं तथापि निवेदय,- येनाऽहमपि तदसाध्यं मत्वा त्वया सह वह्नौ प्रविशामि, न क्षण मपि त्वद्वियोगं सहिष्ये, एष मे निश्चयः । कौलिक आह–'वयस्य ! याऽसौ राजकन्या करेणुकाss- रूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकरध्वजेन ममेयम- वस्था विहिता । तन्न शक्नोमि तद्वेदनां सोदुम् । तथा चोक्तम्- मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्ते तस्याः पयोधरयुगे रतखेदखिन्न । वक्षो निधाय भुजपञ्जरमध्यवर्ती स्वप्स्येकदा क्षणमवाप्य तदीयसङ्गम्।। तथा च- रागी बिम्बाऽधरोऽसौ, स्तनकलशयुगं यौवनारूढगर्व, नीचा नाभिः प्रकृत्या, कुटिलकमलकं, स्वल्पकं चाऽपि मध्यम् । कुर्वन्त्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु खेदं यन्मां तस्याः कपोलौ दहत इति मुहुःस्वच्छकौ, तन्न युक्तम् २२१ एपाम् औषधादीनाम्। अन्येषाम् इतोऽतिरिक्तानामपि। तत्-मयानुऽभूयमा- नम् । मकरध्वज =काम । तद्वदना कामवेदनाम् । मत्तेति । मत्तगजकुम्भ- विशाले, कुङ्कुमचर्चिते, तस्या =नायिकाया । पयोधरयुगे-स्तनद्वये। रतखेदखिन्न = सुरतखेदक्लान्त । तया सह सुरतयुद्धं विधाय परिश्रान्त इत्यर्थ । वक्ष =उर । तदीयभुजयुगलपञ्जरबद्ध । क्षणं तदीयसङ्गमवाप्य कदा स्वप्स्ये इति मे वितर्क इत्यर्थ ॥ २२० ॥ रागी रक्त, रागाविष्टश्च । राग -क्रोध । स्तनावेव कलशो, तयोर्युगं । यौवनेनाऽऽरूढो गर्यो यस्य तत्-यौवनमदमत्त । नाभिस्तु प्रकृत्या= स्वभावत एव नीचा, निम्ना, अधमा च । अलक= केगा । 'भलका कुबेरपुर्या- मस्त्रिया चूर्णकुन्तले' इति मेदिनी। 'प्रकृत्ये'त्युभयान्वयि । कुटिलकं वक्र क्रूरञ्च । मध्यं मध्यभाग । स्वल्पकं-तनुतरं, क्षुद्रच्च । 'स्वकरपश्चापि मध्य एतानि-स्वभावतो नीचानि कुटिलानि चाऽलकादीनि मया मनसि चिन्तितानि प्रसभंवलात् , खेद-दु खम् , आशु-त्वरितं कुर्वन्तु नाम, रागादिदुष्टत्वात् । परन्तु तस्या कामिन्या कपोलौ स्वच्छावेव स्वच्छको- शुद्धौ, निर्दोषौ च, चिन्तितौ यन्मा दहत -यत् पीडयत , तदेव तु न युक्तम्- , 'स्वप्स्यामि कि क्षणमह क्षणलब्धनिद्र'-पाठान्तरम् । 3 इत्यपि पाठ ।