पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

७७ . पुत्रि! सुप्ता, किं वा जागर्षि ? । अहं तव कृते समुद्रात्सानुरागो लक्ष्मी विहायैवागतः, तक्रियतां मया सह समागमः, इति । साऽपि गरुडारूढं चतुर्भुजं सायुध कोस्तुभोपेतमवलोक्य सविस्मया शयनादुत्थाय प्रोवाच-'भगवन् ! अहं मानुषी कीटि- काऽशुचिः, भगवांस्त्रैलोक्यपावनो वन्दनीयश्च तत्कथमेतद्युज्यते । कौलिक आह-'सुभगे ! सत्यमभिहितं भवत्या, किन्तु राधानाम्नी मे भार्या गोपकुलप्रसूता प्रथममासीत्, सा त्वमत्रा- ऽवतीर्णा, तेनाहमत्राऽऽयातः।' इत्युक्ता साप्राह-'भगवन् ! यद्येवं तन्मे तातं प्रार्थय, सोऽप्यविकल्पं मां तुभ्यं प्रयच्छति' । कौलिक आह-सुभगे ! नाहं दर्शनपथं मानुषाणां गच्छामि, किं पुनरालापकरणं, त्वं गान्धर्वेण विवाहेनात्मानं प्रयच्छ, नोचे. च्छापं दत्वा सान्वयं ते पितरं भस्मसात्करिष्यामि'-इति । एवमभिधाय गरुडादवतीर्य सव्ये पाणी गृहीत्वा तां सभयां सलजां वेपमानां शय्यायामनयत् । ततश्च राविशेषयावद्वात्स्या- यनोक्तविधिना निषेव्य प्रत्यूषे स्वगृहमलक्षितो जगाम । एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित्कञ्चकिनस्तस्या अधरोष्ठप्रवालखण्डनं दृष्ट्वा मिथः प्रोचुः-अहो । पश्यताऽस्या राजकन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते, तत्कथमयं सुरक्षितेऽप्यस्मिन्गृहे कन्यान्त पुरे । समुद्रात्-क्षीरसागरात् । सानुराग =त्वत्स्नेहाकृष्ट । सापि- राजपुत्र्यपि। सविस्मया आश्चर्यचकिता। कीटिका कीटसदृशी। अशुचि- प्रायमनुष्यदेहधारिणी। एतत् भवदुक्तम् । अत्र-राजगृहे । तत्-तहिं । तात- मत्पितरम् । अविकल्प=नि संशयम्। न दर्शनपथं गच्छामि=न चक्षुर्विषयो भवामि। आलापकरण सभाषणादिकं । कि पुन =दुरापास्तमेव । गान्धर्वेण स्वेच्छारचितेन विवाहेन । सान्वय-सकुल । भस्मसात्करिष्यामि विनाशयिष्यामि । सव्ये चामे । वेपमाना-लज्जाभयादिना कम्पमानाम् । निषेव्य-उपभुज्य । प्रत्यूष-प्रभाते। अलक्षित =कन्यान्त पुररक्षकैरदृष्ट एव । कालो याति-भूयान् कालो जगाम । अथ गते वहुतिथे काले। कञ्चुकिन =अन्त पुररक्षका । अधरोष्ठप्रवाल-