पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

कृत्योत्सुकतया तामाह 'भद्रे ! शीघ्रमानीयतां भुरभाण्डं, येन क्षौरकर्मकरणाय गच्छामि ।' साऽपि च्छिन्ननासिका प्रत्युत्पन्न- मतिहमध्यस्थितैव (कार्यकरणापेक्षया) क्षुरभाण्डात्क्षुरमेकं समाकृष्य तस्याऽभिमुखं प्रेषयामास । नापितोऽप्युत्सुकतया तमेक क्षुरमवलोक्य कोपाविष्टः संस्तदभिमुखमेव तं क्षुरं ग्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टा ऊर्ध्वबाहू विधाय फूत्कर्तुमना गृहा. निश्चक्राम्,-'अहो ! पापेनाऽनेन मम सदाचारवर्तिन्याः पश्यत नासिकाच्छेदो विहितः, तत्परित्रायतां ! परित्रायताम् !!' अत्राऽन्तरे राजपुरुषाः समभ्येत्य त नापितं लगुडप्रहारै- जर्जरीकृत्य दृढबन्धनैर्वद्धा तया छिन्ननासिकया सह धर्माधिक- रणस्थानं नीत्वा सभ्यानूचुः-'शृण्वन्तु भवन्तः सभासदः! अनेन नापितेनोऽपराधं विना स्त्रीरत्नमेतद्यङ्गितं, तदस्य यद्युज्यते तक्रियताम् ।-इत्यभिहिते सभ्या ऊचुः-रे नापित ! किमर्थ त्वया भार्या व्यङ्गिता ?, किमनया परपुरुषोऽभिलषितः ?, उत स्वित्प्राणद्रोहः कृतः?, किवा चौरकर्माऽऽचरितम् ?। तत्कथ्यता- मस्या अपराधः।' नापितोऽपि प्रहारपीडितर्तनुर्वक्तुं न शशाक । अथ तं तूष्णी- नानाविधपौरलोककार्यव्यासक्तचित्ततया।क्षुरभाण्ड-क्षुरकर्त्तयादिपेटिका ।(लोखड)। प्रत्युत्पन्नमतित्वात्-कार्यकरणापेक्षया स्वकार्यसाधनायेच्छया। उत्सुकतया त्वरा- व्यग्रतया । ( हडवडाहट मे ) । प्राहिणोत्-प्रेषयामास । ('फेंक दिया' )। फूत्कर्तुमनाः-फूत्कृत्य रोदितुमिच्छन्ती। ('चिल्लाने की इच्छा से' )। सदाचार- वर्तिन्या पतिव्रताया । लगुडप्रहारै -यष्टिकापातै । जर्जरीकृत्य-शिथिलीकृत्य । धर्माधिकरणस्थाने राजद्वारे । ( 'कचहरी मे )। सभ्यान धर्माधिकरणस्थान् । ('जज' मजिस्ट्रेट')। यद्युज्यते यदन कर्तु युच्यते, यो दण्ड उचितोऽस्य भवति । १ 'पौरकर्म', २ समस्तक्षुरभाण्डासमर्पणात्क्रोधाविष्ट । ३ प्रक्षिप्तवान् ।४ परित्रायध्वम्। ५ किमिद वैशस स्वदारेषु कृतम्' । पा० । ६ 'विस्मयमूढमतिर्यदा नोत्तरं प्रयच्छति तदा ते सभासद. शास्त्रानुगतमूचु ।' इति पाठा० ।।