पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

90

  • पञ्चतन्त्रम् *

[१ मित्र- अनृतं साहसं माया मूर्खत्वमतिलोभिता । अशौचं निर्दयत्वं च स्त्रीणां दोपाः स्वभावजाः ॥ २०७॥ संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भसंयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सरलं हृदयं नराणां कि वा न वामनयना न समाचरन्ति ! २०८॥ अन्तर्विपमया ह्येता बहिश्चैव मनोरमाः । गुञ्जाफलसमाकारा योषितः केन निर्मिताः' ? ॥२०९ ।। एवं चिन्तयतस्तस्य परिव्राजकस्य सा निशा महता कृच्छ्रे- णाऽतिचक्राम। सा च दूतिका छिन्ननासिका स्वगृहं गत्वा चिन्तयामास-किमिदानी कर्तव्यं, कथमेतन्महच्छिद्रं स्थगयि. तव्यम्'?। अथ तस्या एवं विचिन्तयन्त्या भर्ती कार्यवशाद्राजकुले पर्युषितः । प्रत्यूषे च स्वगृहमभ्युपेत्य द्वारदेशस्थो विवधपौर- कृतार्था =साधितस्वप्रयोजनाः सत्य.। निरर्थ-निष्प्रयोजनं । निष्पीडितालक्तक- वत्-निष्ठ्यूतरागं यावकमिव । त्यजन्ति दूरीकुर्वन्ति, अपसारयन्ति ॥ अनृत=मिथ्याभाषणम् । साहसम् असमीक्ष्य कारिता । अशौच मलिनता। स्वभावजा नैसर्गिका ॥ २०७॥ मदयन्ति=प्रेमोन्मत्तं कुर्वन्ति । विडम्बयन्ति-उपहास्यता नयन्ति, ('उल्लू बनाती हैं)। निर्भर्त्सयन्ति=तिरस्कुर्वन्ति । रमयन्ति-सुखयन्ति। विपाद- यन्ति-क्लेशयन्ति च । किमधिकम्-एता.-कपटकुशला -नराणा सरलं हृदयं प्रविश्य स्वानुकूलमनुरक्तञ्च विधाय किवा तत् कार्य यत् वामनयना =कमल- लोचना न कुर्वन्ति । सर्व कर्तुं प्रभवन्तीत्यर्थ ॥२०८॥ गुजाफलं सविषम् , - उपविषत्वाद्गुलायाः॥ गुजाफलमपि-वहिर्मनोहरमन्तर्विपमयं भवति ॥ २०९ ॥ कृच्छ्रेण=कप्टेन। दूतिका दूती सा नापिती । महच्छिद्रम्-आत्मापराध, नासाकर्तनश्छ । स्थगयितव्यं आच्छादनीयम्, (छिपाउँ)। अत्र 'आवरणीय'मिति पाठान्तरम् । पर्युषितः कृतप्रवासः (गयाहुआ था)। विविधपौरकृत्योत्सुकतया= , 'आवरणीयम्'। २ 'द्वारि स्थितो' ।