पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- म्भूतं दृष्ट्वा पुन: सभ्या ऊचुः-'अहो ! सत्यमेतद्राजपुरुषाणां वचः । पापात्माऽयम् । अनेनेयं निर्दोषा वराकी दूषिता। उक्तञ्च- भिन्नस्वरमुखवर्णः शङ्कितदृष्टिः समुत्पतिततेजाः । भवति हि पापं कृत्वा स्वकर्मसत्रासितः पुरुपः ।। २१०॥ तथाच- आयाति स्खलितैः पादैर्मुखवैवर्ण्यसंयुतः । ललाटस्वेदभाग्भूरि गद्गदं भापते वचः ॥ २१ ॥ अधोईष्टिर्वदेत्कृत्वा पापं प्राप्तः सभां नरः । तस्माद्यत्नात्परिज्ञेयश्चिकैरेतैर्विचक्षणैः ||२१२॥ , अन्यच्च- प्रसन्नवदनो हृष्टः स्पष्टवाक्यः सरोपहा । सभायां वक्ति साऽमर्ष साऽवष्टम्भो नरः शुचिः ।।२१३॥ तदेष दुष्टचरित्रलक्षणो दृश्यते, स्त्रीधर्पणाद्वध्य इति। तच्छ्लेऽ. यमारोप्यताम्'-इति। अथ वध्यस्थाने नीयमानं तमवलोक्य देवशर्मा तान्धर्मा धिकृतान्गत्वा प्रोवाच-'भो ! भोः! अन्यायेनैष वराको वध्यते नापितः । साधुसमाचार एषः । तच्छ्रयतां मे वाक्यम्- व्यजित: नासाच्छेदेन विकलता नीता । ( इसकी आकृति 'सूरत' विगाड़ दी)। प्राणद्रोह =विषादिदानेन पतिप्राणहरणोद्यम । पापात्मा दुष्टस्वभाव , कृतापराध । वराकी-दीना । दूषिता=व्यझिता। इत्येवं राजपुरुषवचनं सत्यमेवेत्यर्थ । भिन्न स्वरो मुखवर्णश्च यस्यासौ तथा,-स्खलितवाक्, परावर्तितमुखवर्णश्च । शङ्कितदृष्टि =भयचञ्चललोचन । चकित इव विलोकमानश्च । समुत्पतिततेजा हतप्रभ. ॥ २१० ॥ भूरि-विपुलम् । ललाटे स्वेद भजतीति-ललाटस्वेदभाग= प्रस्वेदाञ्चितललाटपट्ट । सामर्ष क्रोधोद्धतं । सावष्टम्भ सधैर्य । शुचिः-निर्दोप। सभाया संसदि । ('कचहरी )॥ २१३ ॥ दुष्टचरित्रस्य यानि लक्षणानि तानि सन्त्यस्यासौ तथा । स्त्रीधर्षणात्-स्त्रीपीडनात् । शूले वधशूले । ('शूलीपर')। १ 'कम्पमानोऽप्यधोऽवेक्षी पाप प्राप्त ' । २ 'दुष्टचारित्र । ३ 'शूलायाम् ।