पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

६७ एता हसन्ति च रुदन्ति च कार्यहेतो- विश्वासयन्ति च परं, न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ॥ २०३।। व्याकीर्णकेसरकरालमुखा मृगेन्द्रा नागाश्च भूरिमदराजिविराजमानाः। मेधाविनश्च पुरुपाः समरेपु शूरा.स्त्रीसन्निधौ परमकापुरुपा भवन्ति।२०४ कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् । ज्ञात्वा च तं मन्मथपाशबद्धं ग्रस्तामिपं मीनमिवोद्धरन्ति ।। २०५॥ समुद्रवीचीव चलस्वभावाः, सन्ध्याभ्ररेखेव मुहूर्तरागा. । खियः कृतार्था पुरुपं निरर्थ निष्पीडिताऽलक्तकवत्त्यजन्ति ॥२०॥ इति यावत् । प्रिये-कान्ते। मायाप्रयोगः छलकार्मणप्रयोग। ('कपट' 'जादू-टोना)। इत्थं दोषसमूहरूपा -यासा गुणा ता कथ नराणा प्रिया भवन्ति ? ॥ २०२ ॥ एता इति । कार्यहेतो-स्वकार्यसाधनाय। हसन्ति च रुदन्ति च । पर विश्वासयन्ति, परन्तु तं स्वयं नैव विश्वसन्ति । अत-कुलशीलसमन्वितेन-कुली- नेन, शीलवता च नरेण । 'कुलशीलवतेति पाठान्तरम् । श्मशाने बद्धा घटिका. श्मशानघटिका('श्यमशान मे बन्धी हुई हण्डिया' 'घट' ) तद्वदशुचित्वाद- र्जनाहीं ॥२०३॥ व्याकीणें केसरै करालानि मुखानि येषान्ते,-विक्षिप्तसटा- भारभीपणमुखा । मृगेन्द्रा =सिंहा । भूरिभि-मदराजिभिः मदरेखाभि । विराज- माना =शोभमानकटा । नागा = गजाश्च । स्त्रीणा निकटे परमकापुरुपा =नितान्तं कातरा इव, तद्वशीकृतस्वान्ता भवन्तीत्यहो चित्रम् ।। २०४ ॥ : कुर्वन्तीति । प्रथमम् आदौ । तावत् प्रियाणि-मनोहराणि कटाक्षभुजविक्षे- पादीनि। यावन्नरं प्रसक्तम् अनुरक्तम् , संलग्नञ्च । मन्मथपाशवद्धं कामपाशवद्धं । ग्रस्तमामिष येनासौ तं-गिलितमासखण्डं, सम्भोगलम्पटं च। आमिषं पुनपुंसक, भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपि चेति मेदिनी। उद्धरन्ति आकर्षयन्ति, वशे नयन्ति च । परित्यजन्ति वा ॥ २०५॥ समुद्रवीचीव-समुद्रतरङ्गवत् । चलस्वभावा =चञ्चलप्रकृतयः । सन्ध्याम्र- रेखेव सायङ्कालिकमेघलेखेव । मुहूर्तरागा =क्षणमात्ररक्ता । क्षणिकानुरागाश्च । ३ कुलशीलवता'। 1