पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

AY y

  • पञ्चतन्त्रम् *

[१ मित्र- ०६:२९, ६ जुलै २०२० (UTC) मधु तिष्ठति वाचि योपितां हृदये हालहलं महाविपम् ॥१९९।। अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते । पुरुषैः सुखलेशवञ्चितैर्मधुलुब्धैः कमलं यथाऽलिभिः ।।२००|| अपि च- आवर्तः संशयानामविनयभवनं पत्तनं साहसानां, दोपाणां सन्निधानं कपटशतगृहं, क्षेत्रमप्रत्ययानाम् । दुह्यं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्ड, स्त्रीयन्त्रं केन लोके विषममृतयुतं धर्मनाशाय सृष्टम् ।।२०१|| कार्कश्यं स्तनयोशोस्तरलताऽलीकं मुखे दृश्यते, कौटिल्यं कचसंये, प्रवचने मान्द्यं, त्रिके स्थूलता । भीरुत्वं हृदये सदैव कथितं, मायाप्रयोगः प्रिये, यासां दोपगैंणो गुणो, मृगहशांताः कि नराणां प्रियाः १॥२०२॥ तीक्ष्णेन । मधु-माधुर्य क्षौद्रच । हालहल-तन्नामकं विषं । 'हालहल वदन्त्यपि हलाहल' मिति द्विरूपकोश । अत एवेति । हृदये विपस्य मुखे मधुनश्च विद्यमानत्वान्मुखमाधुर्यवञ्चितै = सुखलेशवञ्चितै., सुखलवलुब्धै पुरुषैरधर पीयते, कामिन्या हृदयं मुष्टिभिराह- न्यते च । कामशास्त्रे हि कामिनीहृदयप्रदेशताडनं कामोद्दीपकतया निर्दिष्टम् । भ्रमरा हि मधुलेशलुब्धा कमलकण्टकवेधमपि सहन्ते इति च लौकिकम् ॥२०॥ संशयानाम्-आवर्त इव-अम्भसा भ्रम इव । ('भवरजाल')। प्रकृते सादृश्या- त्तत्प्रयोग । अविनयाना धाटानां । भवनं गृहमिव । पत्तन नगरमिव । सन्नि- धान-महान् निधिरिव । कपटशताना गृहम् । अप्रत्ययानाम् अविश्वासानाम् । क्षेत्र केदार इव । स्त्रीनामकं यवमेतत्-अमृतयुतं विषं धर्मनाशाय सर्वासा मायानां-करण्ड-पेटकमिव, केन-ब्रह्मणा। सृष्टं निर्मितम् । केन निर्मित मिति प्रश्नो वा ॥ २०१॥ कार्कश्यमिति। तरलता-चञ्चलता। अलीका मिथ्यावचनं। कचसञ्चये केश- वन्धे । प्रवचने भाषणे । मान्छ-मन्दता । निके-पृष्ठवंशाधोभागे। नितम्वविम्बे १, 'महद्विष'मित्यपि कचित्पाठ. । 'महाविष' मिति तु क्षीरस्वामिधृतः पाठ । २ 'लाध्यते' । ३, 'कचसश्चये च वचने'। ४ 'गुणा.'। ५ 'स्युः पशूनां प्रियाः' ।