पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

काञ्च भूतले रक्तप्रवाहं च महान्तमपश्यत् । अथ स विस्मित- मनास्तां बन्धनाद्विमुच्य शय्यायामारोप्य च चाटुशतैः पर्यंतोष- यत् । देवशर्मापि तं सर्व वृत्तान्तमालोक्य विस्मतमना इदमाह- शम्बरस्य च या माया या माया नमुचेरपि । बलेः कुम्भीनसेश्चैव सर्वास्ता योपितो विदुः ॥ १९४ ॥ हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि । अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगतः ।। १९५ ॥ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । स्त्रीबुद्धथान विशिष्येत तस्माद्रक्ष्याः कथं हि ताः १ ॥१९६।। अनृतं 'सत्य'मित्याहुः सत्यं चापि तथाऽनृतम् । इति यास्ता कथं धीरै. संरक्ष्याः पुरुषैरिह ॥ १९७ ॥ अन्यत्राप्युक्तम्- नातिप्रसङ्ग. प्रमदासु कार्यो नेच्छेलं स्त्रीपु विवर्धमानम् । अतिप्रसक्तै. पुरुपैर्यतस्ताः क्रीडन्ति काकैरिव लूनपक्षैः॥१९८|| सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन चेतसा । यथावदेव । (पहिले की तरह ) उल्मुकम्-अलातं । (मसाल-'जलती लकड़ी आदि')। चाटुशतै =प्रियवाक्यैर्बहुविधै । शम्बरस्येति । शम्बर-नमुचि-वलि-कुम्भीनसा असुरा शेषा । सर्वविधा माया स्त्रियो जानन्तीत्यर्थ ॥१९४॥ हसन्त प्रति हसन्ति, रुदन्तं विलोक्य रुदन्ति वञ्चनार्थम् , अप्रियं वदन्तं च प्रियवाक्यरात्मवशं नयन्तीत्यर्थ ॥१९५॥ उशनाः= शुक्राचार्य । न विशिष्येत स्त्रीवुद्धितो न बहिर्भवति । तासा बुद्धावेव सर्व नीति- शास्त्रमन्तर्भवतीत्यर्थ ॥ १६६ ॥ अनृतमिति । सत्यं मिथ्या, असत्यं सत्यमिति च या कथयितुं प्रभवन्ति तासा रक्षणं दुष्करमेवेत्यर्थ ॥१९७ ॥अतिप्रसङ्ग = अत्यन्तं स्नेहानुवन्ध नोचित , स्त्रीणा वल वर्द्धमानं नोपेक्षेत। अतिप्रसक्तै-वशी- भूतै । लूनप: =छिन्नप? ॥ १९८ ॥ वल्गुना-मधुरेण मनोहरेण च । शितेन , मधु तिष्ठति वाचि योषितां हृदये हालहल महद्विषम् । अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताज्यते ॥' इति पा० । ५