पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- देवशर्माऽपि वित्तनाशाक्षुत्क्षामकण्ठो नष्टनिद्रस्तत्सर्व स्त्री- चरित्रमपश्यत् । सापि कौलिकभार्या यथेच्छया देवदत्तन सह सुरतसुखमनुभूय कस्मिंश्चित्क्षणे स्वगृहमागत्य तां नापितीमिद- माह-'अयि ! शिवं भवत्याः १, नायं पापात्मा मम गताया उत्थित आसीत् ?'। नापित्याह-'शिवं नासिकया विना शेषस्य शरीरस्य, तद्: द्रुतं मां मोचये बन्धनाद्यावन्नायं मां पश्यति, येन स्वगृहं गच्छा मि । अन्यथा भूयोऽप्येष दुष्टतरः कर्णच्छेदादिनिग्रहं करिष्यति ।' तथाऽनुष्टिते भूयोऽपि कौलिक उत्थाय तामाह-'पुंश्चलि ! किमद्याऽपि न वदसि ? । किं भूयोऽप्यतो दुष्टतरं निग्रहं कर्ण- च्छेदेन करोमि' ?। अथ सा सकोपं साऽधिक्षेपमिदमाह-'घिग्धिा महासूढ ! को मां महासतीं धर्पयितुं व्यङ्गयितुं वा समर्थः । तच्छृण्वन्तु सर्वेऽपि लोकपाला.- आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ।।१९३।। तद्यदि मम सतीत्वमस्ति, मनसाऽपि परपुरुषो नाभि- लपितः, ततो देवा भूयोऽपि मे नासिकांतादृपामक्षतां कुर्वन्तु । अथवा-यदि मम चित्ते परपुरुषस्य भ्रान्तिरपि भवति तदा मां भस्मसान्नयन्तु ।' एवमुक्त्वा भूयोऽपि तमाह-'भो दुरात्मन् ! पश्य मे सतीत्वप्रभावेण तादृश्येव नासिका संवृत्ता।' अथाऽसावुल्मुकमादाय यावत्पश्यति तावत्तद्रूपां नासि- करूंगा, ऐसे ही पडी रह)। शिवं-कुशलम् । तथानुष्ठिते-बन्धनमोचने कृते सति । साऽधिक्षेप-सनिन्दम् । धर्षयितुं पीडयितुं, तिरस्कर्तुं वा । व्यङ्गयितुं नासिकादिकर्त्तनेन विकलावयवा विधातुम् । अनल: वह्नि । द्यौ-आकाग । वृत्त-चरितम् ॥ १९३॥ तादृग्रूपा- १ 'मुच्च' । २ 'नाय प्रतिबुध्यते' । पाठान्तरम् ।