पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

नाम परिव्राजकः प्रतिवसति स्म । तस्याऽनेकसाधुजनदत्त सूक्ष्मवस्त्रविक्रयवशात्कालेन महती वित्तमात्रा साता। ततः स न कस्यचिद्विश्वसिति, नक्तन्दिनं कक्षान्तरात्ता मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते- अर्थानामजने दुःखमर्जितानाञ्च रक्षणे। आये दु.खं व्यये दुःखं धिगाः कष्टसंश्रया. ॥ १७४ ।। अथाऽऽषाढभूति म परवित्तापहारी धूर्तस्तामर्थमात्रां तस्य कक्षान्तरगतां लक्षयित्वा व्यचिन्तयत्-'कथं मयाऽस्येयमर्थ- मात्रा हर्तव्या ?'-इति । तदत्र मठे तावदृढशिलासञ्चयवशा- द्भित्तिभेदो न भवति । उच्चस्तरत्वाच्चाऽद्वारेण प्रवेशो नस्यात् । तदेनं मायावचनैर्विश्वास्याहं छात्रतां व्रजामि येन च विश्वस्त. कदाचिन्मम हस्तगतो भविष्यति । उक्तञ्च- निस्पृहो नाऽधिकारी स्यान्नाऽकामी मण्डनप्रिय. । नाऽविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चक. ।। १७५ ।। विविक्तप्रदेशे निर्जनस्थाने । मठायतन छात्रादिनिवास (मठ)। परित्रा- जक सन्यासी । साधुजना = श्रेष्ठिन ('साहुकार')। सूक्ष्मवस्त्राणि-चीनाशुका- दीनि। यतिभ्यो वस्त्रमेव दक्षिणास्थाने दीयते न काञ्चनादिकमिति प्रसिद्धम् । वित्तमात्रा धनराशि । नक्तन्दिवम् अहर्निशम् । कक्षान्तरान् क्रोडोत्सङ्गात् । ( वगल से )। आये आगमने । व्यये उपभोगे । अर्था =धनानि । कष्टसंश्रया = क्लेगप्रदा । अतस्तान् धिगिति योजना ॥ १७४ ॥ परवित्तापहारी परधनतस्कर । धूत =वञ्चक ('ठग')। अर्थमात्रा=बन- राशि । ('माल-मत्ता' 'रुपया पैसा')। भित्तिभेद =सन्धिभेद । 'सेन्ध')। अद्वारप्रवेग =भित्तिमुल्लच्य प्रवेश । एनं देवशर्माण। छात्रता-शिप्यताम्। विश्वस्त -जातविरम्भ । हस्तगत =मदशग । निःस्पृह इति । अधिकारी अधिकारारूढ । अकामी-कामुकभिन्न । मण्डनप्रिय = शृङ्गाराभरणप्रिय । अविदग्ध =अकुशल । स्फुटवक्ता स्पष्टवादी । १ 'यजमान'।